अयोध्याकाण्डम्
Chapter 110 / सर्गः ११०
Slōka 1 / श्लोक १
क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१॥
Slōka 2 / श्लोक २
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२॥
Slōka 3 / श्लोक ३
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।
तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह ।स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३॥
Slōka 4 / श्लोक ४
असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: ।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ॥ २.११०.४॥
Slōka 5 / श्लोक ५
तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ॥ २.११०.५॥
Slōka 6 / श्लोक ६
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: ।
स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ॥ २.११०.६॥
Slōka 7 / श्लोक ७
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७॥
Slōka 8 / श्लोक ८
इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: ।
कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८॥
Slōka 9 / श्लोक ९
विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महायशा: ॥ २.११०.९॥
Slōka 10 / श्लोक १०
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१०॥
Slōka 11 / श्लोक ११
अनरण्यान्महाबाहु: पृथू राजा बभूव ह ।
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ॥ २.११०.११॥
Slōka 12 / श्लोक १२
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: ।
धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२॥
Slōka 13 / श्लोक १३
युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत ।
मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ॥ २.११०.१३॥
Slōka 14 / श्लोक १४
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् ।
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ॥ २.११०.१४॥
Slōka 15 / श्लोक १५
भरतात्तु महाबाहोरसितो नाम जायत ।
यस्यैते प्रतिराजान उदपद्यन्त शत्रव: ।हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ॥ २.११०.१५॥
Slōka 16 / श्लोक १६
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: ।
स च शैलवरे रम्ये बभूवाभिरतो मुनि: ॥ २.११०.१६॥
Slōka 17 / श्लोक १७
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: ।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७॥
Slōka 18 / श्लोक १८
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: ।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८॥
Slōka 19 / श्लोक १९
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: ।धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ॥ २.११०.१९॥
Slōka 20 / श्लोक २०
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।तत: सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२०॥
Slōka 21 / श्लोक २१
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जात: स सगरो ऽभवत् ॥ २.११०.२१॥
Slōka 22 / श्लोक २२
स राजा सगरो नाम य: समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ॥ २.११०.२२॥
Slōka 23 / श्लोक २३
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ॥ २.११०.२३॥
Slōka 24 / श्लोक २४
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।
दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ॥ २.११०.२४॥
Slōka 25 / श्लोक २५
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: ।
ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ॥ २.११०.२५॥
Slōka 26 / श्लोक २६
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: ।
कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६॥
Slōka 27 / श्लोक २७
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७॥
Slōka 28 / श्लोक २८
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: ।
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ॥ २.११०.२८॥
Slōka 29 / श्लोक २९
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: ।
प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ॥ २.११०.२९॥
Slōka 30 / श्लोक ३०
अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: ।
नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ॥ २.११०.३०॥
Slōka 31 / श्लोक ३१
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ॥ २.११०.३१॥
Slōka 32 / श्लोक ३२
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२॥
Slōka 33 / श्लोक ३३
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: ।
पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३॥
Slōka 34 / श्लोक ३४
स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ॥ २.११०.३४ ॥