अरण्यकाण्डम्
Chapter 72 / सर्गः ७२
Slōka 1 / श्लोक १
एवम् उक्तौ तु तौ वीरौ कबन्धेन नर ईश्वरौ ।
गिरि प्रदरम् आसाद्य पावकम् विससर्जतुः ॥३-७२-१॥
Slōka 2 / श्लोक २
लक्ष्मणः तु महा उल्काभिः ज्वलिताभिः समन्ततः ।
चिताम् आदीपयामास सा प्रजज्वाल सर्वतः ॥३-७२-२॥
Slōka 3 / श्लोक ३
तत् शरीरम् कबन्धस्य घृत पिण्ड उपमम् महत् ।
मेदसा पच्यमानस्य मन्दम् दहति पावकः ॥३-७२-३॥
Slōka 4 / श्लोक ४
स विधूय चिताम् आशु विधूमो अग्निर् इव उत्थितः ।
अरजे वाससी बिभ्रत् मालाम् दिव्याम् महाबलः ॥३-७२-४॥
Slōka 5 / श्लोक ५
ततः चिताया वेगेन भास्वरो विरज अंबरः ।
उत्पपात आशु संहृष्टः सर्व प्रत्यंग भूषणः ॥३-७२-५॥
Slōka 6 / श्लोक ६
विमाने भास्वरे तिष्ठन् हंस युक्ते यशस् करे ।
प्रभया च महातेजा दिशो दश विराजयन् ॥३-७२-६॥
Slōka 7 / श्लोक ७
सो अन्तरिक्ष गतो वाक्यम् कबन्धो रामम् अब्रवीत् ।
शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि ॥३-७२-७॥
Slōka 8 / श्लोक ८
राम षड् युक्तयो लोके याभिः सर्वम् विमृश्यते ।
परिमृष्टो दश अन्तेन दश आभागेन सेव्यते ॥३-७२-८॥
Slōka 9 / श्लोक ९
दश आभाग गतो हीनः त्वम् राम सह लक्ष्मणः ।
यत् कृते व्यसनम् प्राप्तम् त्वया दार प्रधर्षणम् ॥३-७२-९॥
Slōka 10 / श्लोक १०
तत् अवश्यम् त्वया कार्यः स सुहृत् सुहृदाम् वर ।
अकृत्वा न हि ते सिद्धिम् अहम् पश्यामि चिन्तयन् ॥३-७२-१०॥
Slōka 11 / श्लोक ११
श्रूयताम् राम वक्ष्यामि सुग्रीवो नाम वानरः ।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्र सूनुना ॥३-७२-११॥
Slōka 12 / श्लोक १२
ऋष्यमूके गिरि वरे पंपा पर्यन्त शोभिते ।
निवसति आत्मवान् वीरः चतुर्भिः सह वानरैः ॥३-७२-१२॥
Slōka 13 / श्लोक १३
वानरेन्द्रो महावीर्यः तेजोवान् अमित प्रभः ।
सत्य संधो विनीतः च धृतिमान् मतिमान् महान् ॥३-७२-१३॥
Slōka 14 / श्लोक १४
दक्षः प्रगल्भो द्युतिमान् महा बल पराक्रमः ।
भ्राता विवासितो वीर राज्य हेतो महात्मना ॥३-७२-१४॥
Slōka 15 / श्लोक १५
स ते सहायो मित्रम् च सीतायाः परिमार्गणे ।
भविष्यति हि ते राम मा च शोके मनः कृधाः ॥३-७२-१५॥
Slōka 16 / श्लोक १६
भवितव्यम् हि यत् च अपि न तत् शक्यम् इह अन्यथा ।
कर्तुम् इक्ष्वाकु शार्दूल कालो हि दुर्रक्रमः ॥३-७२-१६॥
Slōka 17 / श्लोक १७
गच्छ शीघ्रम् इतो वीर सुग्रीवम् तम् महाबलम् ।
वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥३-७२-१७॥
Slōka 18 / श्लोक १८
अद्रोहाय समागम्य दीप्यमाने विभावसौ ।
न च ते सो अवमन्तव्यः सुग्रीवो वानर अधिपः ॥३-७२-१८॥
Slōka 19 / श्लोक १९
कृतज्ञः काम रूपी च सहाय अर्थी च वीर्यवान् ।
शक्तौ हि अद्य युवाम् कर्तुम् कार्यम् तस्य चिकीर्षितम् ॥३-७२-१९॥
Slōka 20 / श्लोक २०
कृतार्थो वा अकृतार्थो वा तव कृत्यम् करिष्यति ।
स ऋक्षरजसः पुत्रः पंपाम् अटति शन्कितः ॥३-७२-२०॥
Slōka 21 / श्लोक २१
भास्करस्य औरसः पुत्रो वालिना कृत किल्बिषः ।
संनिधाय आयुधम् क्षिप्रम् ऋष्यमूक आलयम् कपिम् ॥३-७२-२१॥
Slōka 22 / श्लोक २२
कुरु राघव सत्येन वयस्यम् वन चारिणम् ।
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपि कुंजरः ॥३-७२-२२॥
Slōka 23 / श्लोक २३
नर मांस अशिनाम् लोके नैपुण्यात् अधिगच्छति ।
न तस्य अविदितम् लोके किंचित् अस्ति हि राघव ॥३-७२-२३॥
Slōka 24 / श्लोक २४
यावत् सूर्यः प्रतपति सहस्रांशुः अरिन्दम ।
स नदीः विपुलान् शैलान् गिरि दुर्गाणि कंदरान् ॥३-७२-२४॥
Slōka 25 / श्लोक २५
अन्विष्य वानरैः सार्धम् पत्नीम् ते अधिगमिष्यति ।
वानरान् च महाकायान् प्रेषयिष्यति राघव ॥३-७२-२५॥
Slōka 26 / श्लोक २६
दिशो विचेतुम् ताम् सीताम् त्वत् वियोगेन शोचयतीम् ।
अन्वेष्यति वरारोहाम् मैथिलीम् रावण आलये ॥३-७२-२६॥
Slōka 27 / श्लोक २७
स मेरु शृंग अग्र गताम् अनिंदिताम्प्रविश्य पाताल तले अपि वा आश्रिताम् ।
प्लवंगमानाम् ऋषभः तव प्रियाम्निहत्य रक्षाम्सि पुनः प्रदास्यति ॥३-७२-२७॥