Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 37 / सर्गः ३७

Slōka 1 / श्लोक १

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। ५.३७.१।।।।

Slōka 2 / श्लोक २

अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।
यच्च नान्यमना रामो यच्च शोकपरायणः ।। ५.३७.२।।।।

Slōka 3 / श्लोक ३

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। ५.३७.३।।।।

Slōka 4 / श्लोक ४

विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। ५.३७.४।।।।

Slōka 5 / श्लोक ५

शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।
प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। ५.३७.५।।।।

Slōka 6 / श्लोक ६

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।। ५.३७.६।।।।

Slōka 7 / श्लोक ७

स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। ५.३७.७।।।।

Slōka 8 / श्लोक ८

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।
रावणेन नृशंसेन समयो यः कृतो मम ।। ५.३७.८।।।।

Slōka 9 / श्लोक ९

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। ५.३७.९।।।।

Slōka 10 / श्लोक १०

मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। ५.३७.१०।।।।

Slōka 11 / श्लोक ११

ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।
तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। ५.३७.११।।।।

Slōka 12 / श्लोक १२

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। ५.३७.१२।।।।

Slōka 13 / श्लोक १३

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। ५.३७.१३।।।।

Slōka 14 / श्लोक १४

चतुर्दश सहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। ५.३७.१४।।।।

Slōka 15 / श्लोक १५

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।
अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। ५.३७.१५।।।।

Slōka 16 / श्लोक १६

शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। ५.३७.१६।।।।

Slōka 17 / श्लोक १७

इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।
अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। ५.३७.१७।।।।

Slōka 18 / श्लोक १८

कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३७.१८।।।।

Slōka 19 / श्लोक १९

अथवा मोचयिष्यामि त्वामद्यैव वरानने ।
अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। ५.३७.१९।।।।

Slōka 20 / श्लोक २०

त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। ५.३७.२०।।।।

Slōka 21 / श्लोक २१

द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।
व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। ५.३७.२२।।।।

Slōka 22 / श्लोक २२

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।
पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। ५.३७.२३।।।।

Slōka 23 / श्लोक २३

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। ५.३७.२४।।।।

Slōka 24 / श्लोक २४

कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।
मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। ५.३७.२५।।।।

Slōka 25 / श्लोक २५

न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। ५.३७.२६।।।।

Slōka 26 / श्लोक २६

यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। ५.३७.२७।।।।

Slōka 27 / श्लोक २७

मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।
हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३७.२८।।।।

Slōka 28 / श्लोक २८

हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।
तदेव खलु ते मन्ये कपित्वं हरियूथप ।। ५.३७.२९।।।।

Slōka 29 / श्लोक २९

कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। ५.३७.३०।।।।

Slōka 30 / श्लोक ३०

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। ५.३७.३१।।।।

Slōka 31 / श्लोक ३१

न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।
तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। ५.३७.३२।।।।

Slōka 32 / श्लोक ३२

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।
दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। ५.३७.३३।।।।

Slōka 33 / श्लोक ३३

स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। ५.३७.३४।।।।

Slōka 34 / श्लोक ३४

मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। ५.३७.३५।।।।

Slōka 35 / श्लोक ३५

हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। ५.३७.३६।।।।

Slōka 36 / श्लोक ३६

सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।
लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। ५.३७.३७।।।।

Slōka 37 / श्लोक ३७

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। ५.३७.३८।।।।

Slōka 38 / श्लोक ३८

तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। ५.३७.३९।।।।

Slōka 39 / श्लोक ३९

तव सत्त्वं बलं चैव विजानामि महाकपे ।
वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। ५.३७.४०।।।।

Slōka 40 / श्लोक ४०

प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।
उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। ५.३७.४१।।।।

Slōka 41 / श्लोक ४१

जानामि गमने शक्तिं नयने चापि ते मम ।
अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। ५.३७.४२।।।।

Slōka 42 / श्लोक ४२

अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।
वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। ५.३७.४३।।।।

Slōka 43 / श्लोक ४३

अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।
प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। ५.३७.४४।।।।

Slōka 44 / श्लोक ४४

पतिता सागरे चाहं तिमिनक्रझषाकुले ।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। ५.३७.४५।।।।

Slōka 45 / श्लोक ४५

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।
कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। ५.३७.४६।।।।

Slōka 46 / श्लोक ४६

ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। ५.३७.४७।।।।

Slōka 47 / श्लोक ४७

तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। ५.३७.४८।।।।

Slōka 48 / श्लोक ४८

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। ५.३७.४९।।।।

Slōka 49 / श्लोक ४९

युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।
प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। ५.३७.५०।।।।

Slōka 50 / श्लोक ५०

अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।
कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। ५.३७.५१।।।।

Slōka 51 / श्लोक ५१

अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५.३७.५२।।।।

Slōka 52 / श्लोक ५२

मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। ५.३७.५३।।।।

Slōka 53 / श्लोक ५३

अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।
त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। ५.३७.५४।।।।

Slōka 54 / श्लोक ५४

कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। ५.३७.५५।।।।

Slōka 55 / श्लोक ५५

अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। ५.३७.५६।।।।

Slōka 56 / श्लोक ५६

त्वया हि सह रामस्य महानागमने गुणः ।
।। ५.३७.५७।।।।

Slōka 57 / श्लोक ५७

मयि जीवितमायत्तं राघवस्य महात्मनः ।
भ्रातऽणां च महाबाहो तव राजकुलस्य च ।। ५.३७.५८।।।।।

Slōka 58 / श्लोक ५८

तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। ५.३७.५९।।।।

Slōka 59 / श्लोक ५९

भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। ५.३७.६०।।।।

Slōka 60 / श्लोक ६०

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।
अनीशा किं करिष्यामि विनाथा विवशा सती ।। ५.३७.६१।।।।

Slōka 61 / श्लोक ६१

यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। ५.३७.६२।।।।

Slōka 62 / श्लोक ६२

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।
न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। ५.३७.६३।।।।

Slōka 63 / श्लोक ६३

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। ५.३७.६४।।।।

Slōka 64 / श्लोक ६४

सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।
सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ५.३७.६५।।।।

Slōka 65 / श्लोक ६५

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। ५.३७.६६।।