Star (-) Watch (-)

Ramayana

बालकाण्डम्

Chapter 3 / सर्गः ३

Slōka 1 / श्लोक १

श्रुत्वा वस्तु समग्रम् तत् धर्म अर्ध सहितम् हितम् ।
व्यक्तम् अन्वेषते भूयो यद्वृत्तम् तस्य धीमतः ॥१-३-१।॥

Slōka 2 / श्लोक २

उपस्पृस्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीन अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१-३-२।॥

Slōka 3 / श्लोक ३

राम लक्ष्मण सीताभिः राज्ञा दशरथेन च ।
स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१-३-३।॥

Slōka 4 / श्लोक ४

हसितम् भाषितम् च एव गतिर्यायत् च चेष्टितम् ।
तत् सर्वम् धर्म वीर्येण यथावत् संप्रपश्यति ॥१-३-४।॥

Slōka 5 / श्लोक ५

स्त्री तृतीयेन च तथा यत् प्राप्तम् चरता वने ।
सत्यसन्धेन रामेण तत्सर्वम् च अन्ववेक्षत ॥१-३-५।॥

Slōka 6 / श्लोक ६

ततः पश्यति धर्मात्मा तत् सर्वम् योगमास्थितः ।
पुरा यत् तत्र निर्वृत्तम् पाणाव आमलकम् यथा ॥१-३-६।॥

Slōka 7 / श्लोक ७

तत् सर्वम् तात्त्वतो दृश्ट्वा धर्मेण स महामतिःअभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१-३-७।
॥

Slōka 8 / श्लोक ८

कामार्थ गुण संयुक्तम् धर्मार्थ गुण विस्तरम् ।
समुद्रम् इव रत्नाढ्यम् सर्व श्रुति मनोहरम् ॥१-३-८।॥

Slōka 9 / श्लोक ९

स यथा कथितम् पूर्वम् नारदेन महात्मना ।
रघु वंशस्य चरितम् चकार भगवान् मुनिः ॥१-३-९।॥

Slōka 10 / श्लोक १०

जन्म रामस्य सुमहद् वीर्यम् सर्वानुकूलताम् ।
लोकस्य प्रियताम् क्षान्तिम् सौम्यताम् सत्य शीलताम् ॥१-३-१०।॥

Slōka 11 / श्लोक ११

नाना चित्र कथाः च अन्याः विश्वामित्र सहायेन ।
जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१-३-११।॥

Slōka 12 / श्लोक १२

राम राम विवादम् च गुणान् दाशरथेः तथा ।
तथऽभिषेकम् रामस्य कैकेय्या दुष्ट भावताम् ॥१-३-१२।॥

Slōka 13 / श्लोक १३

विघातम् च अभिषेकस्य राघवस्य विवासनम् ।
राज्ञः शोकम् विलापम् च पर लोकस्य च आश्रयम् ॥१-३-१३।॥

Slōka 14 / श्लोक १४

प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् ।
निषाद अधिप संवादम् सूतोपावर्तनम् तथा ॥१-३-१४।॥

Slōka 15 / श्लोक १५

गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् ।
भरद्वाज अभ्यनुज्ञात् चित्रकूटस्य दर्शनम् ॥१-३-१५।॥

Slōka 16 / श्लोक १६

वास्तु कर्म निवेशम् च भरत अगमनम् तथा ।
प्रसादनम् च रामस्य पितुः च सलिल क्रियाम् ॥१-३-१६।॥

Slōka 17 / श्लोक १७

पादुका अग्र्य अभिषेकम् च नन्दि ग्राम निवासनम् ।
दण्डकारण्य गमनम् विराधस्य वधम् तथा ॥१-३-१७।॥

Slōka 18 / श्लोक १८

दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् ।
अनसूया समाख्या च अङ्गराग्स्य च अर्पणम् ॥१-३-१८।॥

Slōka 19 / श्लोक १९

दर्शनम् च अपि अगस्त्यस्य धनुषो ग्रहणम् तथा ।
शूर्पणखाः च संवादम् विरूपकरणम् तथा ॥१-३-१९।॥

Slōka 20 / श्लोक २०

वधम् खरः त्रिशिरसः उत्थानम् रावणस्य च ।
मारीचस्य वधम् च एव वैदेह्या हरणम् तथा ॥१-३-२०।॥

Slōka 21 / श्लोक २१

राघवस्य विलापम् च गृध्र राज निबर्हणम् ।
कबन्ध दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१-३-२१।॥

Slōka 22 / श्लोक २२

शबरी दर्शनम् च एव फल मूल अशनम् तथा ।
प्रलापम् च एव पम्पायम् हनुमद् दर्शनम् ॥१-३-२२।॥

Slōka 23 / श्लोक २३

ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनम् सख्यम् वालि सुग्रीव विग्रहम् ॥१-३-२३।॥

Slōka 24 / श्लोक २४

वालि प्रमथनम् च एव सुगीव प्रतिपादनम् ।
तारा विलापम् समयम् वर्ष रात्र निवासनम् ॥१-३-२४।॥

Slōka 25 / श्लोक २५

कोपम् राघव सिंहस्य बलानाम् उपसंग्रहम् ।
दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१-३-२५।॥

Slōka 26 / श्लोक २६

अङ्गुलीयक दानम् च ऋक्ष्स्य बिल दर्शनम् ।
प्रायोपवेशनम् च अपि संपातेः च अपि दर्शनम् ॥१-३-२६।॥

Slōka 27 / श्लोक २७

पर्वत आरोहणम् च अपि सागर्स्य अपि लङ्घनम् ।
समुद्र वचनात् च एव मैनाकस्य च दर्शनम् ॥१-३-२७।॥

Slōka 28 / श्लोक २८

राक्षसी तर्जनम् च एव छाया ग्राहस्य दर्शनम् ।
सिंहिकायाः च निधनम् लङ्का मलय दर्शनम् ॥१-३-२८।॥

Slōka 29 / श्लोक २९

रात्रौ लंका प्रवेशम् च एकस्य अपि विचिंतनम् ।
आपान भूमि गमनम् अवरोधस्य दर्शनम् ॥१-३-२९।॥

Slōka 30 / श्लोक ३०

दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् ।
अशोक वनिकायानम् सीतायाः च अपि दर्शनम् ॥१-३-३०।॥

Slōka 31 / श्लोक ३१

अभिज्ञन प्रदानम् च सीतायाः च अपि भाषणम् ।
राक्षसी तर्जनम् च एव त्रिजटा स्वप्न दर्शनम् ॥१-३-३१।॥

Slōka 32 / श्लोक ३२

मणि प्रदानम् सीतायाः वृक्ष भंगम् तथ एव च ।
राक्षसी विद्रवम् चैव किंकराणाम् निबर्हणम् ॥१-३-३२।॥

Slōka 33 / श्लोक ३३

ग्रहणम् वायु सूनोश्च लंका दाह अभिगर्जनम् ।
प्रति प्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१-३-३३।॥

Slōka 34 / श्लोक ३४

राघव आस्वासनम् चैव मणि निर्यातनम् तथा ।
संगमम् च समुद्रेण नल सेतोः च बन्धनम् ॥१-३-३४।॥

Slōka 35 / श्लोक ३५

प्रतारम् च समुद्रस्य रात्रौ लंका अवरोधनम् ।
विभीषणेन संसर्गम् वधोपाय निवेदनम् ॥१-३-३५।॥

Slōka 36 / श्लोक ३६

कुम्भकर्णस्य निधनम् मेघनाद निबर्हणम् ।
रावणस्य विनाशम् च सीतावाप्तिम् अरेः पुरे ॥१-३-३६।॥

Slōka 37 / श्लोक ३७

विभीषण अभिषेकम् च पुष्पकस्य च दर्शनम् ।
अयोध्यायाः च गमनम् भरद्वाज समागमम् ॥१-३-३७।॥

Slōka 38 / श्लोक ३८

प्रेषणम् वायु पुत्रस्य भरतेन समागमम् ।
राम अभिषेक अभ्युदयम् सर्व सैन्य विसर्जनम् ।स्व राष्ट्र रंजनम् च एव वैदेह्याः च विसर्जनम् ॥१-३-३८।॥

Slōka 39 / श्लोक ३९

अनागतम् च यत् किंचिद् रामस्य वसुधा तले ।
तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१-३-३९॥