अयोध्याकाण्डम्
Chapter 97 / सर्गः ९७
Slōka 1 / श्लोक १
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१॥
Slōka 2 / श्लोक २
किमत्र धनुषा कार्यमसिना वा सचर्मणा।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२॥
Slōka 3 / श्लोक ३
पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।
किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३॥
Slōka 4 / श्लोक ४
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४॥
Slōka 5 / श्लोक ५
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।
इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५॥
Slōka 6 / श्लोक ६
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६॥
Slōka 7 / श्लोक ७
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।
नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७॥
Slōka 8 / श्लोक ८
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।
भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८॥
Slōka 9 / श्लोक ९
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:।
मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ॥ २.९७.९॥
Slōka 10 / श्लोक १०
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।
जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१०॥
Slōka 11 / श्लोक ११
स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ॥ २.९७.११॥
Slōka 12 / श्लोक १२
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ॥ २.९७.१२॥
Slōka 13 / श्लोक १३
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।
अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३॥
Slōka 14 / श्लोक १४
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४॥
Slōka 15 / श्लोक १५
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:।
अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ॥ २.९७.१५॥
Slōka 16 / श्लोक १६
कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ॥ २.९७.१६॥
Slōka 17 / श्लोक १७
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७॥
Slōka 18 / श्लोक १८
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८॥
Slōka 19 / श्लोक १९
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:।
लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९॥
Slōka 20 / श्लोक २०
तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह।
त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ॥ २.९७.२०॥
Slōka 21 / श्लोक २१
व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह।
एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ॥ २.९७.२१॥
Slōka 22 / श्लोक २२
अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२॥
Slōka 23 / श्लोक २३
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।
पिता मे राघव: श्रीमान् वनादादाय यास्यति ॥ २.९७.२३॥
Slōka 24 / श्लोक २४
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४॥
Slōka 25 / श्लोक २५
स एष सुमहाकाय: कम्पते वाहिनीमुखे।
नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ॥ २.९७.२५॥
Slōka 26 / श्लोक २६
न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्।
पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६॥
Slōka 27 / श्लोक २७
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७॥
Slōka 28 / श्लोक २८
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:।
लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ॥ २.९७.२८॥
Slōka 29 / श्लोक २९
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९॥
Slōka 30 / श्लोक ३०
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३०॥
Slōka 31 / श्लोक ३१
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥