सुन्दरकाण्डम्
Chapter 62 / सर्गः ६२
Slōka 1 / श्लोक १
तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः ।
अव्यग्रमनसो यूयं मधु सेवत वानराः ।अहमावारयिष्यामि युष्माकं परिपन्थिनः ।। ५.६२.१ ।।।।
Slōka 2 / श्लोक २
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः ।
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।। ५.६२.२ ।।।।
Slōka 3 / श्लोक ३
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।। ५.६२.३ ।।।।
Slōka 4 / श्लोक ४
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।। ५.६२.४ ।।।।
Slōka 5 / श्लोक ५
पूजयित्वा ऽङ्गदं सर्वे वानरा वानरर्षभम् ।
जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ।। ५.६२.५ ।।।।
Slōka 6 / श्लोक ६
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ।
। ५.६२.६ ।।।।
Slōka 7 / श्लोक ७
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।
पपुः सर्वे मधु तदा रसवत् फलमाददुः ।। ५.६२.७ ।।।।
Slōka 8 / श्लोक ८
उत्पत्य च ततः सर्वे वनपालान् समागतान् ।
ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ।। ५.६२.८ ।।।।
Slōka 9 / श्लोक ९
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।
पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथा ऽपरे ।। ५.६२.९ ।।।।
Slōka 10 / श्लोक १०
केचित्पीत्वा ऽपविध्यन्ति मधूनि मधुपिङ्गलाः ।
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ।। ५.६२.१० ।।।।
Slōka 11 / श्लोक ११
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ।। ५.६२.११ ।।।।
Slōka 12 / श्लोक १२
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।
क्षिपन्ति च तदा ऽन्योन्यं स्खलन्ति च तथा ऽपरे ।। ५.६२.१२ ।।।।
Slōka 13 / श्लोक १३
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।
हरयो मधुना मत्ताः केचित् सुप्ता महीतले ।। ५.६२.१३ ।।।।
Slōka 14 / श्लोक १४
कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ।
कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ।। ५.६२.१४ ।।।।
Slōka 15 / श्लोक १५
ये ऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।
ते ऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।। ५.६२.१५ ।।।।
Slōka 16 / श्लोक १६
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ।। ५.६२.१६ ।।।।
Slōka 17 / श्लोक १७
हनूमता दत्तवरैर्हतं मधुवनं बलात् ।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ।। ५.६२.१७ ।।।।
Slōka 18 / श्लोक १८
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।
हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ।। ५.६२.१८ ।।।।
Slōka 19 / श्लोक १९
इहागच्छत गच्छामो वानरान् बलदर्पितान् ।
बलेन वारयिष्यामो मधु भक्षयतो वयम् ।। ५.६२.१९ ।।।।
Slōka 20 / श्लोक २०
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।
पुनर्वीरा मधुवनं तेनैव सहसा ययुः ।। ५.६२.२० ।।।।
Slōka 21 / श्लोक २१
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।
समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ।। ५.६२.२१ ।।।।
Slōka 22 / श्लोक २२
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।
गृहीत्वा ऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ।। ५.६२.२२ ।।।।
Slōka 23 / श्लोक २३
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ।। ५.६२.२३ ।।।।
Slōka 24 / श्लोक २४
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।
अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ।। ५.६२.२४ ।।।।
Slōka 25 / श्लोक २५
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।
अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ।। ५.६२.२५ ।।।।
Slōka 26 / श्लोक २६
तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितो ऽङ्गदः ।। ५.६२.२६ ।।।।
Slōka 27 / श्लोक २७
मदान्धश्च न वेदैनमार्यको ऽयं ममेति सः ।
अथैनं निष्पिपेषाशु वेगवद्वसुधातले ।। ५.६२.२७ ।।।।
Slōka 28 / श्लोक २८
स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।
मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ।। ५.६२.२८ ।।।।
Slōka 29 / श्लोक २९
स समाश्वस्य सहसा संक्रुद्धो राजमातुलः ।
वानरान् वारयामास दण्डेन मधुमोहितान् ।। ५.६२.२९ ।।।।
Slōka 30 / श्लोक ३०
स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।
उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ।। ५.६२.३० ।।।।
Slōka 31 / श्लोक ३१
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। ५.६२.३१ ।।।।
Slōka 32 / श्लोक ३२
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। ५.६२.३२ ।।।।
Slōka 33 / श्लोक ३३
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ।
पितृपैतामहं दिव्यं देवैरपि दुरासदम् ।। ५.६२.३३ ।।।।
Slōka 34 / श्लोक ३४
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।
घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ।। ५.६२.३४ ।।।।
Slōka 35 / श्लोक ३५
वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।
अमर्षप्रभवो रोषः सफलो नो भविष्यति ।। ५.६२.३५ ।।।।
Slōka 36 / श्लोक ३६
एवमुक्त्वा दधिमुखो वनपालान् महाबलः ।
जगाम सहसोत्पत्य वनपालैः समन्वितः ।। ५.६२.३६ ।।।।
Slōka 37 / श्लोक ३७
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ।। ५.६२.३७ ।।।।
Slōka 38 / श्लोक ३८
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।
समप्रतिष्ठां जगतीमाकाशान्निपपात ह ।। ५.६२.३८ ।।।।
Slōka 39 / श्लोक ३९
सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः ।। ५.६२.३९ ।।।।
Slōka 40 / श्लोक ४०
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ।। ५.६२.४० ।।