Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 80 / सर्गः ८०

Slōka 1 / श्लोक १

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ।। ७.८०.१ ॥

Slōka 2 / श्लोक २

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ।। ७.८०.२ ॥

Slōka 3 / श्लोक ३

अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ।। ७.८०.३ ॥

Slōka 4 / श्लोक ४

तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ।। ७.८०.४ ॥

Slōka 5 / श्लोक ५

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ।। ७.८०.५ ।।

Slōka 6 / श्लोक ६

कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे ।
पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ।। ७.८०.६ ॥

Slōka 7 / श्लोक ७

तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। ७.८०.७ ॥

Slōka 8 / श्लोक ८

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ।। ७.८०.८ ॥

Slōka 9 / श्लोक ९

मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ।। ७.८०.९ ॥

Slōka 10 / श्लोक १०

यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।। ७.८०.१० ॥

Slōka 11 / श्लोक ११

अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।
क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ।। ७.८०.११ ॥

Slōka 12 / श्लोक १२

दास्यते चानवद्याङ्ग तव मा याचितः पिता ।
। ७.८०.१२ ॥

Slōka 13 / श्लोक १३

एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ।। ७.८०.१३ ॥

Slōka 14 / श्लोक १४

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ।। ७.८०.१४ ॥

Slōka 15 / श्लोक १५

त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। ७.८०.१५ ॥

Slōka 16 / श्लोक १६

एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। ७.८०.१६ ॥

Slōka 17 / श्लोक १७

एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। ७.८०.१७ ॥

Slōka 18 / श्लोक १८

अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ।। ७.८०.१८ ।।