उत्तरकाण्डम्डम्
Chapter 90 / सर्गः ९०
Slōka 1 / श्लोक १
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। ७.९०.१ ॥
Slōka 2 / श्लोक २
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। ७.९०.२ ॥
Slōka 3 / श्लोक ३
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। ७.९०.३ ॥
Slōka 4 / श्लोक ४
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ।। ७.९०.४ ॥
Slōka 5 / श्लोक ५
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। ७.९०.५ ॥
Slōka 6 / श्लोक ६
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। ७.९०.६ ॥
Slōka 7 / श्लोक ७
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। ७.९०.७ ॥
Slōka 8 / श्लोक ८
तेषां संवदतामेव तमाश्रममुपागमत् ।
कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। ७.९०.८ ॥
Slōka 9 / श्लोक ९
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। ७.९०.९ ॥
Slōka 10 / श्लोक १०
ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। ७.९०.१० ॥
Slōka 11 / श्लोक ११
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। ७.९०.११ ॥
Slōka 12 / श्लोक १२
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।। ७.९०.१२ ॥
Slōka 13 / श्लोक १३
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। ७.९०.१३ ॥
Slōka 14 / श्लोक १४
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः ।
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। ७.९०.१४ ॥
Slōka 15 / श्लोक १५
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।
रुद्रश्च परमं तोषमाजगाम महायशाः ।। ७.९०.१५ ॥
Slōka 16 / श्लोक १६
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।
उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। ७.९०.१६ ॥
Slōka 17 / श्लोक १७
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। ७.९०.१७ ॥
Slōka 18 / श्लोक १८
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।
प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। ७.९०.१८ ॥
Slōka 19 / श्लोक १९
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। ७.९०.१९ ॥
Slōka 20 / श्लोक २०
निवृत्ते हयमेधे च गतश्चादर्शनं हरः ।
यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। ७.९०.२० ॥
Slōka 21 / श्लोक २१
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। ७.९०.२१ ॥
Slōka 22 / श्लोक २२
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। ७.९०.२२ ॥
Slōka 23 / श्लोक २३
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। ७.९०.२३ ॥
Slōka 24 / श्लोक २४
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। ७.९०.२४ ।।