Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 119 / सर्गः ११९

Slōka 1 / श्लोक १

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१॥

Slōka 2 / श्लोक २

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२॥

Slōka 3 / श्लोक ३

रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥ २.११९.३॥

Slōka 4 / श्लोक ४

एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥ २.११९.४॥

Slōka 5 / श्लोक ५

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥ २.११९.५॥

Slōka 6 / श्लोक ६

अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।
विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥ २.११९.६॥

Slōka 7 / श्लोक ७

रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७॥

Slōka 8 / श्लोक ८

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।
जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८॥

Slōka 9 / श्लोक ९

गम्यतामनुजानामि रामस्यानुचरी भव ।
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९॥

Slōka 10 / श्लोक १०

अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१०॥

Slōka 11 / श्लोक ११

सा तथा समलंकृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११॥

Slōka 12 / श्लोक १२

तथा तु भूषितां सीतां ददर्श वदतां वर: ।
राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२॥

Slōka 13 / श्लोक १३

न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३॥

Slōka 14 / श्लोक १४

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।
मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४॥

Slōka 15 / श्लोक १५

ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।
अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥ २.११९.१५॥

Slōka 16 / श्लोक १६

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६॥

Slōka 17 / श्लोक १७

तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।
वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥ २.११९.१७॥

Slōka 18 / श्लोक १८

रक्षांसि पुरुषादानि नानारूपाणि राघव ।
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥ २.११९.१८॥

Slōka 19 / श्लोक १९

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९॥

Slōka 20 / श्लोक २०

एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२०॥

Slōka 21 / श्लोक २१

इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।
वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥