सुन्दरकाण्डम्
Chapter 9 / सर्गः ९
Slōka 1 / श्लोक १
तस्य आलय वरिष्ठस्य मध्ये विपुलम् आयतम् ।
ददर्श भवन श्रेष्ठम् हनूमान् मारुत आत्मजः ॥५-९-१॥
Slōka 2 / श्लोक २
अर्ध योजन विस्तीर्णम् आयतम् योजनम् हि तत् ।
भवनम् राक्षस इन्द्रस्य बहु प्रासाद सम्कुलम् ॥५-९-२॥
Slōka 3 / श्लोक ३
मार्गमाणः तु वैदेहीम् सीताम् आयत लोचनाम् ।
सर्वतः परिचक्राम हनूमान् अरि सूदनः ॥५-९-३॥
Slōka 4 / श्लोक ४
उत्तमम् राक्षसावासम् हनुमानवलोकयन् ।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-९-४॥
Slōka 5 / श्लोक ५
चतुर् विषाणैर् द्विरदैः त्रिविषाणैः तथैव च ।
परिक्षिप्तम् असम्बाधम् रक्ष्यमाणम् उदायुधैः ॥५-९-५॥
Slōka 6 / श्लोक ६
राक्षसीभिः च पत्नीभी रावणस्य निवेशनम् ।
आह्Rताभिः च विक्रम्य राज कन्याभिर् आव्Rतम् ॥५-९-६॥
Slōka 7 / श्लोक ७
तन् नक्र मकर आकीर्णम् तिमिम्गिल झष आकुलम् ।
वायु वेग समाधूतम् पन्नगैर् इव सागरम् ॥५-९-७॥
Slōka 8 / श्लोक ८
या हि वैश्वरणे लक्ष्मीर् या च इन्द्रे हरि वाहने ।
सा रावण ग्Rहे सर्वा नित्यम् एव अनपायिनी ॥५-९-८॥
Slōka 9 / श्लोक ९
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।
ताद्Rशी तद् विशिष्टा वा Rद्धी रक्षो ग्Rहेष्व् इह ॥५-९-९॥
Slōka 10 / श्लोक १०
तस्य हर्म्यस्य मध्यस्थम् वेश्म च अन्यत् सुनिर्मितम् ।
बहुनिर्यूह सम्कीर्णम् ददर्श पवन आत्मजः ॥५-९-१०॥
Slōka 11 / श्लोक ११
ब्रह्मणो अर्थे क्Rतम् दिव्यम् दिवि यद् विश्व कर्मणा ।
विमानम् पुष्पकम् नाम सर्व रत्न विभूषितम् ॥५-९-११॥
Slōka 12 / श्लोक १२
परेण तपसा लेभे यत् कुबेरः पितामहात् ।
कुबेरम् ओजसा जित्वा लेभे तद् राक्षस ईश्वरः ॥५-९-१२॥
Slōka 13 / श्लोक १३
ईहा म्Rग समायुक्तैः कार्य स्वर हिरण्मयैः ।
सुक्Rतैर् आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया ॥५-९-१३॥
Slōka 14 / श्लोक १४
मेरु मन्दर सम्काशैर् उल्लिखद्भिर् इव अम्बरम् ।
कूट अगारैः शुभ आकारैः सर्वतः समलम्क्Rतम् ॥५-९-१४॥
Slōka 15 / श्लोक १५
ज्वलन अर्क प्रतीकाशम् सुक्Rतम् विश्व कर्मणा ।
हेम सोपान सम्युक्तम् चारु प्रवर वेदिकम् ॥५-९-१५॥
Slōka 16 / श्लोक १६
जाल वात अयनैर् युक्तम् कान्चनैः स्थाटिकैर् अपि ।
इन्द्र नील महा नील मणि प्रवरवेदिकम् ॥५-९-१६॥
Slōka 17 / श्लोक १७
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः ।
विस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥५-९-१७॥
Slōka 18 / श्लोक १८
चन्दनेन च रक्तेन तपनीयनिभेन च ।
सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥५-९-१८॥
Slōka 19 / श्लोक १९
कूटागारैर्वराकारैर्विविधैः समलम्कृतम् ।
विमानम् पुष्पकम् दिव्यम् आरुरोह महा कपिः ॥५-९-१९॥
Slōka 20 / श्लोक २०
तत्रस्थः स तदा गन्धम् पान भक्ष्य अन्न सम्भवम् ।
दिव्यम् सम्मूर्चितम् जिघ्रन् रूपवन्तम् इव अनिलम् ॥५-९-२०॥
Slōka 21 / श्लोक २१
स गन्धः तम् महा सत्त्वम् बन्धुर् बन्धुम् इव उत्तमम् ।
इत एहि इति उवाच इव तत्र यत्र स रावणः ॥५-९-२१॥
Slōka 22 / श्लोक २२
ततः ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् ।
रावणस्य मनः कान्ताम् कान्ताम् इव वर स्त्रियम् ॥५-९-२२॥
Slōka 23 / श्लोक २३
मणि सोपान विक्Rताम् हेम जाल विराजिताम् ।
स्फाटिकैर् आव्Rत तलाम् दन्त अन्तरित रूपिकाम् ॥५-९-२३॥
Slōka 24 / श्लोक २४
मुक्ताभिः च प्रवालैः च रूप्य चामी करैर् अपि ।
विभूषिताम् मणि स्तम्भैः सुबहु स्तम्भ भूषिताम् ॥५-९-२४॥
Slōka 25 / श्लोक २५
नम्रैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ।
स्तम्भैः पक्षैर् इव अत्युच्चैर् दिवम् सम्प्रस्थिताम् इव ॥५-९-२५॥
Slōka 26 / श्लोक २६
महत्या कुथय आस्त्रीणम् प्Rथिवी लक्षण अन्कया ।
पृथिवीम् इव विस्तीर्णाम् सराष्ट्र ग्Rह मालिनीम् ॥५-९-२६॥
Slōka 27 / श्लोक २७
नादिताम् मत्त विहगैर् दिव्य गन्ध अधिवासिताम् ।
पर अर्ध्य आस्तरण उपेताम् रक्षो अधिप निषेविताम् ॥५-९-२७॥
Slōka 28 / श्लोक २८
धूम्राम् अगरु धूपेन विमलाम् हम्स पाण्डुराम् ।
चित्राम् पुष्प उपहारेण कल्माषीम् इव सुप्रभाम् ॥५-९-२८॥
Slōka 29 / श्लोक २९
मनः सम्ह्लाद जननीम् वर्णस्य अपि प्रसादिनीम् ।
ताम् शोक नाशिनीम् दिव्याम् श्रियः सम्जननीम् इव ॥५-९-२९॥
Slōka 30 / श्लोक ३०
इन्द्रियाणि इन्द्रिय अर्थैः तु पन्च पन्चभिर् उत्तमैः ।
तर्पयाम् आस माता इव तदा रावण पालिता ॥५-९-३०॥
Slōka 31 / श्लोक ३१
स्वर्गो अयम् देव लोको अयम् इन्द्रस्य इयम् पुरी भवेत् ।
सिद्धिर् वा इयम् परा हि स्याद् इति अमन्यत मारुतिः ॥५-९-३१॥
Slōka 32 / श्लोक ३२
प्रध्यायत इव अपश्यत् प्रदीपामः तत्र कान्चनान् (ःइअतुस्!)।
धूर्तान् इव महा धूर्तैर् देवनेन पराजितान् ॥५-९-३२॥
Slōka 33 / श्लोक ३३
दीपानाम् च प्रकाशेन तेजसा रावणस्य च ।
अर्चिर्भिर् भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत ॥५-९-३३॥
Slōka 34 / श्लोक ३४
ततो अपश्यत् कुथा आसीनम् नाना वर्ण अम्बर स्रजम् ।
सहस्रम् वर नारीणाम् नाना वेष विभूषितम् ॥५-९-३४॥
Slōka 35 / श्लोक ३५
परिव्Rत्ते अर्ध रात्रे तु पान निद्रा वशम् गतम् ।
क्रीडित्वा उपरतम् रात्रौ सुष्वाप बलवत् तदा ॥५-९-३५॥
Slōka 36 / श्लोक ३६
तत् प्रसुप्तम् विरुरुचे निह्शब्द अन्तर भूषणम् ।
निह्शब्द हम्स भ्रमरम् यथा पद्म वनम् महत् ॥५-९-३६॥
Slōka 37 / श्लोक ३७
तासाम् सम्व्Rत दन्तानि मीलित अक्षाणि मारुतिः ।
अपश्यत् पद्म गन्धीनि वदनानि सुयोषिताम् ॥५-९-३७॥
Slōka 38 / श्लोक ३८
प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा क्षये ।
पुनः सम्व्Rत पत्राणि रात्राव् इव बभुः तदा ॥५-९-३८॥
Slōka 39 / श्लोक ३९
इमानि मुख पद्मानि नियतम् मत्त षट्पदाः ।
अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥५-९-३९॥
Slōka 40 / श्लोक ४०
इति वा अमन्यत श्रीमान् उपपत्त्या महा कपिः ।
मेने हि गुणतः तानि समानि सलिल उद्भवैः ॥५-९-४०॥
Slōka 41 / श्लोक ४१
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता ।
शारदी इव प्रसन्ना द्यौः ताराभिर् अभिशोभिता ॥५-९-४१॥
Slōka 42 / श्लोक ४२
स च ताभिः परिव्Rतः शुशुभे राक्षस अधिपः ।
यथा हि उडु पतिः श्रीमामः ताराभिर् अभिसम्व्Rतः ॥५-९-४२॥
Slōka 43 / श्लोक ४३
याः च्यवन्ते अम्बरात् ताराः पुण्य शेष समाव्Rताः ।
इमाः ताः सम्गताः क्Rत्स्ना इति मेने हरिः तदा ॥५-९-४३॥
Slōka 44 / श्लोक ४४
ताराणाम् इव सुव्यक्तम् महतीनाम् शुभ अर्चिषाम् ।
प्रभा वर्ण प्रसादाः च विरेजुः तत्र योषिताम् ॥५-९-४४॥
Slōka 45 / श्लोक ४५
व्याव्Rत्त गुरु पीन स्रक् प्रकीर्ण वर भूषणाः ।
पान व्यायाम कालेषु निद्रा अपह्Rत चेतसः ॥५-९-४५॥
Slōka 46 / श्लोक ४६
व्याव्Rत्त तिलकाः काश्चित् काश्चिद् उद्भ्रान्त नूपुराः ।
पार्श्वे गलित हाराः च काश्चित् परम योषितः ॥५-९-४६॥
Slōka 47 / श्लोक ४७
मुखा हार व्Rताः च अन्याः काश्चित् प्रस्रस्त वाससः ।
व्याविद्ध रशना दामाः किशोर्य इव वाहिताः ॥५-९-४७॥
Slōka 48 / श्लोक ४८
सुकुण्डल धराः च अन्या विच्चिन्न म्Rदित स्रजः ।
गज इन्द्र म्Rदिताः फुल्ला लता इव महा वने ॥५-९-४८॥
Slōka 49 / श्लोक ४९
चन्द्र अम्शु किरण आभाः च हाराः कासाम्चिद् उत्कटाः ।
हम्सा इव बभुः सुप्ताः स्तन मध्येषु योषिताम् ॥५-९-४९॥
Slōka 50 / श्लोक ५०
अपरासाम् च वैदूर्याः कादम्बा इव पक्षिणः ।
हेम सूत्राणि च अन्यासाम् चक्र वाका इव अभवन् ॥५-९-५०॥
Slōka 51 / श्लोक ५१
हम्स कारण्डव आकीर्णाः चक्र वाक उपशोभिताः ।
आपगा इव ता रेजुर् जघनैः पुलिनैर् इव ॥५-९-५१॥
Slōka 52 / श्लोक ५२
किन्किणी जाल सम्काशाः ता हेम विपुल अम्बुजाः ।
भाव ग्राहा यशः तीराः सुप्ता नद्य इव आबभुः ॥५-९-५२॥
Slōka 53 / श्लोक ५३
मृदुष्व् अन्गेषु कासाम्चित् कुच अग्रेषु च सम्स्थिताः ।
बभूवुर् भूषणानि इव शुभा भूषण राजयः ॥५-९-५३॥
Slōka 54 / श्लोक ५४
अम्शु कान्ताः च कासाम्चिन् मुख मारुत कम्पिताः ।
उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः ॥५-९-५४॥
Slōka 55 / श्लोक ५५
ताः पाताका इव उद्धूताः पत्नीनाम् रुचिर प्रभाः ।
नाना वर्ण सुवर्णानाम् वक्त्र मूलेषु रेजिरे ॥५-९-५५॥
Slōka 56 / श्लोक ५६
ववल्गुः च अत्र कासाम्चित् कुण्डलानि शुभ अर्चिषाम् ।
मुख मारुत सम्सर्गान् मन्दम् मन्दम् सुयोषिताम् ॥५-९-५६॥
Slōka 57 / श्लोक ५७
शर्कर आसव गन्धः स प्रक्Rत्या सुरभिः सुखः ।
तासाम् वदन निह्श्वासः सिषेवे रावणम् तदा ॥५-९-५७॥
Slōka 58 / श्लोक ५८
रावण आनन शन्काः च काश्चिद् रावण योषितः ।
मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः ॥५-९-५८॥
Slōka 59 / श्लोक ५९
अत्यर्थम् सक्त मनसो रावणे ता वर स्त्रियः ।
अस्वतन्त्राः सपत्नीनाम् प्रियम् एव आचरमः तदा ॥५-९-५९॥
Slōka 60 / श्लोक ६०
बाहून् उपनिधाय अन्याः पारिहार्य विभूषिताः ।
अम्शुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥५-९-६०॥
Slōka 61 / श्लोक ६१
अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनर् भुजम् ।
अपरा त्व् अन्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥५-९-६१॥
Slōka 62 / श्लोक ६२
ऊरु पार्श्व कटी प्Rष्ठम् अन्योन्यस्य समाश्रिताः ।
परस्पर निविष्ट अन्ग्यो मद स्नेह वश अनुगाः ॥५-९-६२॥
Slōka 63 / श्लोक ६३
अन्योन्यस्य अन्ग सम्स्पर्शात् प्रीयमाणाः सुमध्यमाः ।
एकी क्Rत भुजाः सर्वाः सुषुपुः तत्र योषितःअन्योन्य भुज सूत्रेण स्त्री माला ग्रथिता हि सा ।माला इव ग्रथिता सूत्रे शुशुभे मत्त षट्पदा ॥५-९-६३॥
Slōka 64 / श्लोक ६४
लतानाम् माधवे मासि फुल्लानाम् वायु सेवनात् ।
अन्योन्य माला ग्रथितम् सम्सक्त कुसुम उच्चयम् ॥५-९-६४॥
Slōka 65 / श्लोक ६५
व्यतिवेष्टित सुस्कन्थम् अन्योन्य भ्रमर आकुलम् ।
आसीद् वनम् इव उद्धूतम् स्त्री वनम् रावणस्य तत् ॥५-९-६५॥
Slōka 66 / श्लोक ६६
उचितेष्व् अपि सुव्यक्तम् न तासाम् योषिताम् तदा ।
विवेकः शक्य आधातुम् भूषण अन्ग अम्बर स्रजाम् ॥५-९-६६॥
Slōka 67 / श्लोक ६७
रावणे सुख सम्विष्टे ताः स्त्रियो विविध प्रभाः ।
ज्वलन्तः कान्चना दीपाः प्रेक्षन्त अनिमिषा इव ॥५-९-६७॥
Slōka 68 / श्लोक ६८
राज Rषि पित्R दैत्यानाम् गन्धर्वाणाम् च योषितः ।
रक्षसाम् च अभवन् कन्याः तस्य काम वशम् गताः ॥५-९-६८॥
Slōka 69 / श्लोक ६९
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ।
समदा मदनेनैव मोहिताः काश्चिदागताः ॥५-९-६९॥
Slōka 70 / श्लोक ७०
न तत्र काचित् प्रमदा प्रसह्य ।
वीर्य उपपन्नेन गुणेन लब्धा ।न च अन्य कामा अपि न च अन्य पूर्वा ।विना वर अर्हाम् जनक आत्मजाम् तु ॥५-९-७०॥
Slōka 71 / श्लोक ७१
न च अकुलीना न च हीन रूपा ।
न अदक्षिणा न अनुपचार युक्ता ।भार्या अभवत् तस्य न हीन सत्त्वा ।न च अपि कान्तस्य न कामनीया ॥५-९-७१॥
Slōka 72 / श्लोक ७२
बभूव बुद्धिः तु हरि ईश्वरस्य ।
यदि ईद्Rशी राघव धर्म पत्नी ।इमा यथा राक्षस राज भार्याः ।सुजातम् अस्य इति हि साधु बुद्धेः ॥५-९-७२॥
Slōka 73 / श्लोक ७३
पुनः च सो अचिन्तयद् आर्त रूपो ।
ध्रुवम् विशिष्टा गुणतो हि सीता ।अथ अयम् अस्याम् क्Rतवान् महात्मा ।लन्का ईश्वरः कष्टम् अनार्य कर्म ॥५-९-७३॥