Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 1 / सर्गः १

Slōka 1 / श्लोक १

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥५-१-१॥

Slōka 2 / श्लोक २

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।
समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ ॥५-१-२॥

Slōka 3 / श्लोक ३

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरः सलिलकल्पेषु विच्चार यथासुखम् ॥५-१-३॥

Slōka 4 / श्लोक ४

द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
मृगांश्च सुबाहुन्निघ्नन् प्रवृद्ध इव केसरी॥५-१-४॥

Slōka 5 / श्लोक ५

नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।
स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥५-१-५॥

Slōka 6 / श्लोक ६

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छिदैः ।
यक्षकिन्नरगन्धर्वैर्देवक्ल्पैश्च पन्नगैः ॥५-१-६॥

Slōka 7 / श्लोक ७

स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥५-१-७॥

Slōka 8 / श्लोक ८

स सूर्याय महेन्द्राय पवनाय स्वयंभुवे ।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥५-१-८॥

Slōka 9 / श्लोक ९

अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोओनयो ।
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिश्म् ॥५-१-९॥

Slōka 10 / श्लोक १०

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थम् समुद्र इव पर्वसु ॥५-१-१०॥

Slōka 11 / श्लोक ११

निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥५-१-११॥

Slōka 12 / श्लोक १२

स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥५-१-१२॥

Slōka 13 / श्लोक १३

तेन पादपमुक्तेन पुष्पौघेन सुगन्धिना ।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥५-१-१३॥

Slōka 14 / श्लोक १४

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥५-१-१४॥

Slōka 15 / श्लोक १५

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥५-१-१५॥

Slōka 16 / श्लोक १६

मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥५-१-१६॥

Slōka 17 / श्लोक १७

गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ।
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥५-१-१७॥

Slōka 18 / श्लोक १८

स महासत्त्वसंनादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥५-१-१८॥

Slōka 19 / श्लोक १९

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥५-१-१९॥

Slōka 20 / श्लोक २०

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।
जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥५-१-२०॥

Slōka 21 / श्लोक २१

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥५-१-२१॥

Slōka 22 / श्लोक २२

भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥५-१-२२॥

Slōka 23 / श्लोक २३

पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्रणि च महार्हाणि करकांश्च हिरण्मयान् ॥५-१-२३॥

Slōka 24 / श्लोक २४

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥५-१-२४॥

Slōka 25 / श्लोक २५

कृतक्ण्ठगुणाः क्षीबा र्क्तमाल्यानुलेपनाः ।
र्क्तक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥५-१-२५॥

Slōka 26 / श्लोक २६

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥५-१-२६॥

Slōka 27 / श्लोक २७

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्॥५-१-२७॥

Slōka 28 / श्लोक २८

शुश्रुवुश्चतदा शब्दमृषीणां भावितात्मनाम्।
चारणानां च सिद्धानां स्थितानांविमलेऽम्बरे॥५-१-२८॥

Slōka 29 / श्लोक २९

एष पर्वतसंकाशो हनूमान् मारुतात्मजः ।
तितीर्षति महावेगः समुद्रं मकरालयम् ॥५-१-२९॥

Slōka 30 / श्लोक ३०

रामार्थं वानरार्थं च चिकीर्षन् कर्मदुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥५-१-३०॥

Slōka 31 / श्लोक ३१

इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥५-१-३१॥

Slōka 32 / श्लोक ३२

दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।
ननाद सुमहानादं सुमहानिव तोयदः ॥५-१-३२॥

Slōka 33 / श्लोक ३३

आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥५-१-३३॥

Slōka 34 / श्लोक ३४

तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥५-१-३४॥

Slōka 35 / श्लोक ३५

बाहू संस्तंभयामास महापरिघसंनिभौ ।
ससाद च कपिः क्ट्यां चरणौ संचुकोच च ॥५-१-३५॥

Slōka 36 / श्लोक ३६

संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।
तेजः स्त्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥५-१-३६॥

Slōka 37 / श्लोक ३७

मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥५-१-३७॥

Slōka 38 / श्लोक ३८

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥५-१-३८॥

Slōka 39 / श्लोक ३९

यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।
गच्चेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥५-१-३९॥

Slōka 40 / श्लोक ४०

न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥५-१-४०॥

Slōka 41 / श्लोक ४१

यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥५-१-४१॥

Slōka 42 / श्लोक ४२

सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥५-१-४२॥

Slōka 43 / श्लोक ४३

एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥५-१-४३॥

Slōka 44 / श्लोक ४४

उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥५-१-४४॥

Slōka 45 / श्लोक ४५

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥५-१-४५॥

Slōka 46 / श्लोक ४६

स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥५-१-४६॥

Slōka 47 / श्लोक ४७

ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबन्धमिव बान्धवाः ॥५-१-४७॥

Slōka 48 / श्लोक ४८

तमूरुवेगोन्मथिताःसालाश्चन्ये नगोत्तमाः।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥५-१-४८॥

Slōka 49 / श्लोक ४९

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥५-१-४९॥

Slōka 50 / श्लोक ५०

सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५-१-५०॥

Slōka 51 / श्लोक ५१

स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।
शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥५-१-५१॥

Slōka 52 / श्लोक ५२

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥५-१-५२॥

Slōka 53 / श्लोक ५३

लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥५-१-५३॥

Slōka 54 / श्लोक ५४

ताराचितमिवाकाशं प्रबभौ च महार्णवः ।
पुष्पौघेनानुबद्धेन नानावर्णेन वानरः ।बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५-१-५४॥

Slōka 55 / श्लोक ५५

तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ॥५-१-५५॥

Slōka 56 / श्लोक ५६

ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥५-१-५६॥

Slōka 57 / श्लोक ५७

पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।
पिबन्निव बभौ चापि सोओर्मिमालं महार्णवम् ॥५-१-५७॥

Slōka 58 / श्लोक ५८

पिपासुरिव चाकाशं ददृशे स महाकपिः ।
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥५-१-५८॥

Slōka 59 / श्लोक ५९

नयने विप्रकाशेते पर्वतस्थाविवानलौ ।
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥५-१-५९॥

Slōka 60 / श्लोक ६०

चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ।
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥५-१-६०॥

Slōka 61 / श्लोक ६१

सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥५-१-६१॥

Slōka 62 / श्लोक ६२

अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ।
लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥५-१-६२॥

Slōka 63 / श्लोक ६३

व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥५-१-६३॥

Slōka 64 / श्लोक ६४

महता दारितेनेव गिरिर्गैरिकधातुना ।
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥५-१-६४॥

Slōka 65 / श्लोक ६५

कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।
खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ॥५-१-६५॥

Slōka 66 / श्लोक ६६

दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥५-१-६६॥

Slōka 67 / श्लोक ६७

प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ।
उपरिष्टाच्छरीरेण छायया चावगाढया ।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥५-१-६७॥

Slōka 68 / श्लोक ६८

यं यं देशं समुद्रस्य जगाम स महाकपिः ।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥५-१-६८॥

Slōka 69 / श्लोक ६९

सागरस्योओर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥५-१-६९॥

Slōka 70 / श्लोक ७०

कपिवातश्च बलवान् मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥५-१-७०॥

Slōka 71 / श्लोक ७१

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥५-१-७१॥

Slōka 72 / श्लोक ७२

मेरुमन्दरसंकाशानुद्धतान् स महार्णवे ।
अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥५-१-७२॥

Slōka 73 / श्लोक ७३

तस्य वेगसमुद्धूतं जलं सजलदं तदा ।
अम्बर्स्थं विबभ्राज शारदाभ्रमिवाततम् ॥५-१-७३॥

Slōka 74 / श्लोक ७४

तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥५-१-७४॥

Slōka 75 / श्लोक ७५

प्लवमानं समीक्ष्यथ भुजङ्गाः सागरालयाः ।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥५-१-७५॥

Slōka 76 / श्लोक ७६

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जले चारुतराभवत् ॥५-१-७६॥

Slōka 77 / श्लोक ७७

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥५-१-७७॥

Slōka 78 / श्लोक ७८

शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥५-१-७८॥

Slōka 79 / श्लोक ७९

येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥५-१-७९॥

Slōka 80 / श्लोक ८०

आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ।
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥५-१-८०॥

Slōka 81 / श्लोक ८१

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥५-१-८१॥

Slōka 82 / श्लोक ८२

प्रविशन्नभ्रजालानिनिष्पतंश्च पुनः पुनः ।
प्रच्चन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥५-१-८२॥

Slōka 83 / श्लोक ८३

प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।
ववर्षुः पुष्पवर्षणि देवगन्धर्वदानवाः ॥५-१-८३॥

Slōka 84 / श्लोक ८४

तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।
सिषेवे च तदा वायू रामकार्याद्थसिद्धये ॥५-१-८४॥

Slōka 85 / श्लोक ८५

ऋषयस्तुष्टुवुश्चैव प्लवमानं विहायसा ।
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥५-१-८५॥

Slōka 86 / श्लोक ८६

नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ॥५-१-८६॥

Slōka 87 / श्लोक ८७

प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ॥५-१-८७॥

Slōka 88 / श्लोक ८८

इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ।
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥५-१-८८॥

Slōka 89 / श्लोक ८९

करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।
अहमिक्ष्वाकुनाथेन सगरेण विवर्धतः ॥५-१-८९॥

Slōka 90 / श्लोक ९०

इक्ष्वाकुसचिचश्चायं नावसीदितुमर्हति ।
तथा मया विधातव्यं विश्रमेत यथा कपिः ॥५-१-९०॥

Slōka 91 / श्लोक ९१

शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ।
इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमम्भसि ॥५-१-९१॥

Slōka 92 / श्लोक ९२

हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।
त्वमिहासुरसंघानां पाताLअतलवासिनां ॥५-१-९२॥

Slōka 93 / श्लोक ९३

देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ।
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥५-१-९३॥

Slōka 94 / श्लोक ९४

पाताLअस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥५-१-९४॥

Slōka 95 / श्लोक ९५

तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।
न एष कपिशार्दूलस्त्वमुपर्येति वीर्यवान् ॥५-१-९५॥

Slōka 96 / श्लोक ९६

हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥५-१-९६॥

Slōka 97 / श्लोक ९७

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥५-१-९७॥

Slōka 98 / श्लोक ९८

कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥५-१-९८॥

Slōka 99 / श्लोक ९९

अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।
चामीकरमहानाभ देवगन्धर्व सेवित ॥५-१-९९॥

Slōka 100 / श्लोक १००

हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ।
काकुत्थ्सस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥५-१-१००॥

Slōka 101 / श्लोक १०१

श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।
हिरण्य नाभो मैनाको निशम्य लवणाम्भसः ॥५-१-१०१॥

Slōka 102 / श्लोक १०२

उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।
स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥५-१-१०२॥

Slōka 103 / श्लोक १०३

यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।
स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥५-१-१०३॥

Slōka 104 / श्लोक १०४

द्र्शयामास शृङ्गाणि सागरेण नियोजितः ।
शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः ॥५-१-१०४॥

Slōka 105 / श्लोक १०५

आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ।
तप्तजाम्बूनदैः शृङिगाः पर्वतस्य समुत्थितैः ॥५-१-१०५॥

Slōka 106 / श्लोक १०६

आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ।
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः ॥५-१-१०६॥

Slōka 107 / श्लोक १०७

आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ।
तमुत्थितमसंगेन हनुमानग्रतः स्थितम् ॥५-१-१०७॥

Slōka 108 / श्लोक १०८

मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।
स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥५-१-१०८॥

Slōka 109 / श्लोक १०९

उरसा पातयामास जीमूतमिव मारुतः ।
स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥५-१-१०९॥

Slōka 110 / श्लोक ११०

बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।
तमाकाशगतं वीरमाकाशे समुपस्थितः ॥५-१-११०॥

Slōka 111 / श्लोक १११

प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥५-१-१११॥

Slōka 112 / श्लोक ११२

दुष्करं कृतावन्कर्म त्वमिदं वानरोत्तम ।
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥५-१-११२॥

Slōka 113 / श्लोक ११३

राघवस्य कुले जातैरुदधिः परिवर्धितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥५-१-११३॥

Slōka 114 / श्लोक ११४

कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।
सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥५-१-११४॥

Slōka 115 / श्लोक ११५

त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।
योजनानां शतं चापि कपिरेष समाप्लुतः ॥५-१-११५॥

Slōka 116 / श्लोक ११६

तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ॥५-१-११६॥

Slōka 117 / श्लोक ११७

तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि ॥५-१-११७॥

Slōka 118 / श्लोक ११८

अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥५-१-११८॥

Slōka 119 / श्लोक ११९

वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥५-१-११९॥

Slōka 120 / श्लोक १२०

अतिथिः किलपूजार्हः प्राकृतोऽपि विजानता ।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥५-१-१२०॥

Slōka 121 / श्लोक १२१

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥५-१-१२१॥

Slōka 122 / श्लोक १२२

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।
तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥५-१-१२२॥

Slōka 123 / श्लोक १२३

पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।
ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥५-१-१२३॥

Slōka 124 / श्लोक १२४

ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः ।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥५-१-१२४॥

Slōka 125 / श्लोक १२५

ततः क्रुद्धः सहस्राअक्षः पर्वतानां शतक्रतुः ।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥५-१-१२५॥

Slōka 126 / श्लोक १२६

स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततोऽहं सहसा क्षिप्तः स्वसनेन महात्मना ॥५-१-१२६॥

Slōka 127 / श्लोक १२७

अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥५-१-१२७॥

Slōka 128 / श्लोक १२८

ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।
त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥५-१-१२८॥

Slōka 129 / श्लोक १२९

अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥५-१-१२९॥

Slōka 130 / श्लोक १३०

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥५-१-१३०॥

Slōka 131 / श्लोक १३१

एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥५-१-१३१॥

Slōka 132 / श्लोक १३२

त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्त्तरे ॥५-१-१३२॥

Slōka 133 / श्लोक १३३

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥५-१-१३३॥

Slōka 134 / श्लोक १३४

स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥५-१-१३४॥

Slōka 135 / श्लोक १३५

अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।
पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥५-१-१३५॥

Slōka 136 / श्लोक १३६

भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।
वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥५-१-१३६॥

Slōka 137 / श्लोक १३७

तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
प्रश्शंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥५-१-१३७॥

Slōka 138 / श्लोक १३८

देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥५-१-१३८॥

Slōka 139 / श्लोक १३९

उवाच वचनं धीमान् परितोषात्सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥५-१-१३९॥

Slōka 140 / श्लोक १४०

हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥५-१-१४०॥

Slōka 141 / श्लोक १४१

साह्यं ते सुमहद्विक्रान्तस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति ॥५-१-१४१॥

Slōka 142 / श्लोक १४२

रामस्यैष हितायैव याति दाशरथेर्हरिः ।
सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥५-१-१४२॥

Slōka 143 / श्लोक १४३

ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥५-१-१४३॥

Slōka 144 / श्लोक १४४

स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥५-१-१४४॥

Slōka 145 / श्लोक १४५

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रूवन् सूर्यसंकाशां सुरसां नागमातरम् ॥५-१-१४५॥

Slōka 146 / श्लोक १४६

अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥५-१-१४६॥

Slōka 147 / श्लोक १४७

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्रकराLअं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम् ॥५-१-१४७॥

Slōka 148 / श्लोक १४८

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥५-१-१४८॥

Slōka 149 / श्लोक १४९

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥५-१-१४९॥

Slōka 150 / श्लोक १५०

विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥५-१-१५०॥

Slōka 151 / श्लोक १५१

मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम् ॥५-१-१५१॥

Slōka 152 / श्लोक १५२

एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥५-१-१५२॥

Slōka 153 / श्लोक १५३

रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥५-१-१५३॥

Slōka 154 / श्लोक १५४

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीत हृता भार्या रावणेन यशस्विनी ॥५-१-१५४॥

Slōka 155 / श्लोक १५५

तस्याः सकाशं दूतोऽहं गमिष्ये रामकारणात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥५-१-१५५॥

Slōka 156 / श्लोक १५६

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥५-१-१५६॥

Slōka 157 / श्लोक १५७

एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥५-१-१५७॥

Slōka 158 / श्लोक १५८

तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना वै नागमाता हनूमतः ॥५-१-१५८॥

Slōka 159 / श्लोक १५९

प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥५-१-१५९॥

Slōka 160 / श्लोक १६०

व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुञ्गवः ॥५-१-१६०॥

Slōka 161 / श्लोक १६१

अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।
प्रविश्य वदनं मेऽद्य ग्न्तव्यं वानरोत्तम ।वर एष पुरा दत्तो ममम् ध्रात्रेति सत्वरा ॥५-१-१६१॥

Slōka 162 / श्लोक १६२

व्यादाय विपुलं वक्त्रं स्थिता सा मरुतेः पुरः ।
तं दृष्ह्ट्वा मेघसंकाशं दशयोजनमायतम् ॥५-१-१६२॥

Slōka 163 / श्लोक १६३

चकार सुरसा चास्यं विंशद्योजनमायतम् ।
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥५-१-१६३॥

Slōka 164 / श्लोक १६४

चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।
बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥५-१-१६४॥

Slōka 165 / श्लोक १६५

चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।
तथैव हनुमान्वीरः सप्ततीयोजिनोच्छ्रितः ॥५-१-१६५॥

Slōka 166 / श्लोक १६६

चकार सुरसा व्क्त्रम्शीतीयोजनोच्छ्रितम् ।
हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥५-१-१६६॥

Slōka 167 / श्लोक १६७

तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥५-१-१६७॥

Slōka 168 / श्लोक १६८

सुसंक्षिप्यात्मनः कायं बभूवाञ्गुष्ठमात्रकः ।
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥५-१-१६८॥

Slōka 169 / श्लोक १६९

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥५-१-१६९॥

Slōka 170 / श्लोक १७०

तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥५-१-१७०॥

Slōka 171 / श्लोक १७१

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानयस्व वैदेहीं राघवेण महात्मना ॥५-१-१७१॥

Slōka 172 / श्लोक १७२

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रश्शंसुस्तदा हरिम् ॥५-१-१७२॥

Slōka 173 / श्लोक १७३

स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥५-१-१७३॥

Slōka 174 / श्लोक १७४

चरिते कैशिकाचार्यैरैरावतनिषेविते ॥५-१-१७४॥

Slōka 175 / श्लोक १७५

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः संपतद्भिश्च विमलैः समलंकृते ॥५-१-१७५॥

Slōka 176 / श्लोक १७६

वज्राशनिसमाघातैः पावकैरुपशोभिते ।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥५-१-१७६॥

Slōka 177 / श्लोक १७७

वहता हव्यमत्यर्थं सेविते चित्रभानुना ।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥५-१-१७७॥

Slōka 178 / श्लोक १७८

महर्षिगणगन्धर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥५-१-१७८॥

Slōka 179 / श्लोक १७९

देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥५-१-१७९॥

Slōka 180 / श्लोक १८०

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।
जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥५-१-१८०॥

Slōka 181 / श्लोक १८१

प्रदृश्यमानः सर्वत्र हनुमान्मारुतात्मजः ।
भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥५-१-१८१॥

Slōka 182 / श्लोक १८२

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥५-१-१८२॥

Slōka 183 / श्लोक १८३

अद्य दीर्Gहस्य कालस्य भविष्याम्यहामाशिता ।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥५-१-१८३॥

Slōka 184 / श्लोक १८४

इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिन्तयामास वानरः ॥५-१-१८४॥

Slōka 185 / श्लोक १८५

समाक्षिप्तोऽस्मि तरसा पञूकृतपराक्रमः ।
प्रतिलोमेन वातेन महानौरिव सागरे ॥५-१-१८५॥

Slōka 186 / श्लोक १८६

तिर्यगूर्ध्वमधश्चैव वीक्षिमाणस्ततः कपिः ।
ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥५-१-१८६॥

Slōka 187 / श्लोक १८७

छाय्तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥५-१-१८७॥

Slōka 188 / श्लोक १८८

आग्राहि महावीर्यं तदिदं नात्र संशयः ।
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।व्यवर्धत महाकायः प्रवृषीव वलाहकः ॥५-१-१८८॥

Slōka 189 / श्लोक १८९

तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥५-१-१८९॥

Slōka 190 / श्लोक १९०

वक्त्रं प्रसारयामास पाताLआन्तरसन्निभम् ।
घनराजीव गर्जन्ती वानरं सम्भिद्रवत् ॥५-१-१९०॥

Slōka 191 / श्लोक १९१

स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।
कायमात्रं च मेधावी मर्माणि च महाकपिः ॥५-१-१९१॥

Slōka 192 / श्लोक १९२

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।
संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥५-१-१९२॥

Slōka 193 / श्लोक १९३

आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥५-१-१९३॥

Slōka 194 / श्लोक १९४

ततस्तस्या नखैस्तीक्णैर्मर्माण्युत्कृत्य वानरः ।
उत्पपाताथ वेगेन मनः संपातविक्रमः ॥५-१-१९४॥

Slōka 195 / श्लोक १९५

तां तु दृष्ट्वा च धऋत्या च दाक्षिण्येन निपात्य च ।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥५-१-१९५॥

Slōka 196 / श्लोक १९६

हृतहृत्सा हनुमता पपात विधुराम्भसि ।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥५-१-१९६॥

Slōka 197 / श्लोक १९७

भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् ।
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥५-१-१९७॥

Slōka 198 / श्लोक १९८

साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥५-१-१९८॥

Slōka 199 / श्लोक १९९

धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ।
स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥५-१-१९९॥

Slōka 200 / श्लोक २००

जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥५-१-२००॥

Slōka 201 / श्लोक २०१

योजनानां शतस्यान्ते वनराजिं ददर्श सः ।
ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥५-१-२०१॥

Slōka 202 / श्लोक २०२

द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ।
सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥५-१-२०२॥

Slōka 203 / श्लोक २०३

सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ॥५-१-२०३॥

Slōka 204 / श्लोक २०४

निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ।
कायवृद्धिं प्रवेगं च मम दृष्ट्वव राक्षसाः ॥५-१-२०४॥

Slōka 205 / श्लोक २०५

मयि कौतूहलं कुर्युरिति मेने महाकपिः ।
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥५-१-२०५॥

Slōka 206 / श्लोक २०६

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।
तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ॥५-१-२०६॥

Slōka 207 / श्लोक २०७

त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।
स चारुनानाविधरूपधारी ।परं समासाद्य समुद्रतीरम् ।परैरशक्यः प्रतिपन्नरूपः ।समीक्षितात्मा समवेक्षितार्थः ॥५-१-२०७॥

Slōka 208 / श्लोक २०८

ततः स लम्बस्य गिरेः समृद्धे ।
विचित्रकूटे निपपात कूटे ।सकेतकोद्दालकनाLइकेरे ।महाभ्रकूटप्रतिमो महात्मा ॥५-१-२०८॥

Slōka 209 / श्लोक २०९

ततस्तु संप्राप्य समुद्रतीरं ।
समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।कपिस्तु तस्मिन्निपपात पर्वते ।विधूय रूपं व्यथयन्म्Rऋगद्विजान् ॥५-१-२०९॥

Slōka 210 / श्लोक २१०

स सागरं दानवपन्नगायुतं ।
बलेन विक्रम्य महोर्मिमालिनम् ।निपत्य तीरे च महोदधेस्तदा ।ददर्श लङ्काममरावतीमिव ॥५-१-२१०॥