Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 14 / सर्गः १४

Slōka 1 / श्लोक १

ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। ७.१४.१ ॥

Slōka 2 / श्लोक २

धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।
वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। ७.१४.२ ॥

Slōka 3 / श्लोक ३

पुराणि स नदीः शैलान्वनान्युपवनानि च ।
अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ७.१४.३ ॥

Slōka 4 / श्लोक ४

सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।
युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।। ७.१४.४ ॥

Slōka 5 / श्लोक ५

यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।
राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। ७.१४.५ ॥

Slōka 6 / श्लोक ६

ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।
अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। ७.१४.६ ॥

Slōka 7 / श्लोक ७

ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः ।
तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। ७.१४.७ ॥

Slōka 8 / श्लोक ८

ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् ।
व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। ७.१४.८ ॥

Slōka 9 / श्लोक ९

स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।
हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ।। ७.१४.९ ॥

Slōka 10 / श्लोक १०

ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।
तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। ७.१४.१० ॥

Slōka 11 / श्लोक ११

ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।
हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ।। ७.१४.११ ॥

Slōka 12 / श्लोक १२

स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।
वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ।। ७.१४.१२ ॥

Slōka 13 / श्लोक १३

न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।
महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।। ७.१४.१३ ॥

Slōka 14 / श्लोक १४

स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ।। ७.१४.१४ ॥

Slōka 15 / श्लोक १५

स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।
वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ।। ७.१४.१५ ॥

Slōka 16 / श्लोक १६

तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।
अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। ७.१४.१६ ॥

Slōka 17 / श्लोक १७

केचित्समाहता भग्नाः पतिताः समरक्षितौ ।
ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ।। ७.१४.१७ ॥

Slōka 18 / श्लोक १८

श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।
सीदन्ति च तदा यक्षाः कूला इव जलेन ह ।। ७.१४.१८ ॥

Slōka 19 / श्लोक १९

हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।
प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।। ७.१४.१९ ॥

Slōka 20 / श्लोक २०

भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।
धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। ७.१४.२० ॥

Slōka 21 / श्लोक २१

एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।
प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ।। ७.१४.२१ ॥

Slōka 22 / श्लोक २२

तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।
पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ।। ७.१४.२२ ॥

Slōka 23 / श्लोक २३

ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।
तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ।। ७.१४.२३ ॥

Slōka 24 / श्लोक २४

ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।
मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ।। ७.१४.२४ ॥

Slōka 25 / श्लोक २५

तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। ७.१४.२५ ॥

Slōka 26 / श्लोक २६

स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।
यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ।। ७.१४.२६ ॥

Slōka 27 / श्लोक २७

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।
रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ।। ७.१४.२७ ॥

Slōka 28 / श्लोक २८

स शैलशिखराभेण तोरणेन समाहतः ।
जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ।। ७.१४.२८ ॥

Slōka 29 / श्लोक २९

तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।
नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ।। ७.१४.२९ ॥

Slōka 30 / श्लोक ३०

ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ।। ७.१४.३० ।।