उत्तरकाण्डम्डम्
Chapter 34 / सर्गः ३४
Slōka 1 / श्लोक १
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। ७.३४.१ ॥
Slōka 2 / श्लोक २
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् ।
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। ७.३४.२ ॥
Slōka 3 / श्लोक ३
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।
गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ७.३४.३ ॥
Slōka 4 / श्लोक ४
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।
उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। ७.३४.४ ॥
Slōka 5 / श्लोक ५
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् ।
को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। ७.३४.५ ॥
Slōka 6 / श्लोक ६
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण ।
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ॥
Slōka 7 / श्लोक ७
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।
युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। ७.३४.७ ॥
Slōka 8 / श्लोक ८
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस ।
तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। ७.३४.८ ॥
Slōka 9 / श्लोक ९
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत ।
इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। ७.३४.९ ॥
Slōka 10 / श्लोक १०
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।
वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। ७.३४.१० ॥
Slōka 11 / श्लोक ११
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। ७.३४.११ ॥
Slōka 12 / श्लोक १२
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।
रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। ७.३४.१२ ॥
Slōka 13 / श्लोक १३
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ।
ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। ७.३४.१३ ॥
Slōka 14 / श्लोक १४
यदृच्छया तदा दृष्टो वालिनापि स रावणः ।
पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। ७.३४.१४ ॥
Slōka 15 / श्लोक १५
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।
न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। ७.३४.१५ ॥
Slōka 16 / श्लोक १६
जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।
कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। ७.३४.१६ ॥
Slōka 17 / श्लोक १७
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। ७.३४.१७ ॥
Slōka 18 / श्लोक १८
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।
जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.१८ ॥
Slōka 19 / श्लोक १९
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.१९ ॥
Slōka 20 / श्लोक २०
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।
पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.२० ॥
Slōka 21 / श्लोक २१
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.२१ ॥
Slōka 22 / श्लोक २२
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।
जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.२२ ॥
Slōka 23 / श्लोक २३
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।
मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.२३ ॥
Slōka 24 / श्लोक २४
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः ।
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.२४ ॥
Slōka 25 / श्लोक २५
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः ।
तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.२५ ॥
Slōka 26 / श्लोक २६
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः ।
किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.२६ ॥
Slōka 27 / श्लोक २७
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः ।
क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.२७ ॥
Slōka 28 / श्लोक २८
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः ।
पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.२८ ॥
Slōka 29 / श्लोक २९
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।
उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.२९ ॥
Slōka 30 / श्लोक ३०
बहुयोजनसाहस्रं वहमानो महाहरिः ।
वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.३० ॥
Slōka 31 / श्लोक ३१
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् ।
वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.३१ ॥
Slōka 32 / श्लोक ३२
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः ।
किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.३२ ॥
Slōka 33 / श्लोक ३३
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः ।
रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.३३ ॥
Slōka 34 / श्लोक ३४
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।
कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.३४ ॥
Slōka 35 / श्लोक ३५
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।
राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.३५ ॥
Slōka 36 / श्लोक ३६
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः ।
युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.३६ ॥
Slōka 37 / श्लोक ३७
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।
येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.३७ ॥
Slōka 38 / श्लोक ३८
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।
मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.३८ ॥
Slōka 39 / श्लोक ३९
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।
मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.३९ ॥
Slōka 40 / श्लोक ४०
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.४० ॥
Slōka 41 / श्लोक ४१
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.४१ ॥
Slōka 42 / श्लोक ४२
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ ।
भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.४२ ॥
Slōka 43 / श्लोक ४३
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।
किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.४३ ॥
Slōka 44 / श्लोक ४४
स तत्र मासमुषितः सुग्रीव इव रावणः ।
अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.४४ ॥
Slōka 45 / श्लोक ४५
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।
धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.४५ ॥
Slōka 46 / श्लोक ४६
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् ।
सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.४६ ।।