युद्धकाण्डम्
Chapter 17 / सर्गः १७
Slōka 1 / श्लोक १
इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः ।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥।।
Slōka 2 / श्लोक २
तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् ।
गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥।।
Slōka 3 / श्लोक ३
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥।।
Slōka 4 / श्लोक ४
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।
वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥।।
Slōka 5 / श्लोक ५
तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः ।
वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥।।
Slōka 6 / श्लोक ६
चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह ।
हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥।।
Slōka 7 / श्लोक ७
एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः ।
राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥।।
Slōka 8 / श्लोक ८
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।
सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥।।
Slōka 9 / श्लोक ९
शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् ।
निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥।।
Slōka 10 / श्लोक १०
तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः ।
उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥।।
Slōka 11 / श्लोक ११
स उवाच च महाप्राज्ञः स्वरेण महता महान् ।
सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥।।
Slōka 12 / श्लोक १२
रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।
तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥।।
Slōka 13 / श्लोक १३
तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् ।
रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥।।
Slōka 14 / श्लोक १४
तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् ।
साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥।।
Slōka 15 / श्लोक १५
स च न प्रतिजग्राह रावणः काल चोदितः ।
उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥।।
Slōka 16 / श्लोक १६
सो अहम् परुषितस् तेन दासवच् च अवमानितः ।
त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥।।
Slōka 17 / श्लोक १७
निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने ।
सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥।।
Slōka 18 / श्लोक १८
एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः ।
लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥।।
Slōka 19 / श्लोक १९
प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः ।
निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥।।
Slōka 20 / श्लोक २०
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।
वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥।।
Slōka 21 / श्लोक २१
अन्तर्धनगताह्येते राक्षसाः कामरूपिणः ।
शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥।।
Slōka 22 / श्लोक २२
प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।
अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥।।
Slōka 23 / श्लोक २३
अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् ।
अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥।।
Slōka 24 / श्लोक २४
मित्राटवीबलम् चैव मौलभृत्यबलम् तथा ।
सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥।।
Slōka 25 / श्लोक २५
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।
आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥।।
Slōka 26 / श्लोक २६
रावणस्य अनुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥।।
Slōka 27 / श्लोक २७
रावणेन प्रणिहितम् तम् अवेहि विभीषणम् ।
तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥।।
Slōka 28 / श्लोक २८
राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः ।
प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥।।
Slōka 29 / श्लोक २९
बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह ।
रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥।।
Slōka 30 / श्लोक ३०
एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः ।
वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥।।
Slōka 31 / श्लोक ३१
सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः ।
समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥।।
Slōka 32 / श्लोक ३२
यद् उक्तम् कपि राजेन रावण अवरजम् प्रति ।
वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥।।
Slōka 33 / श्लोक ३३
सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता ।
समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥।।
Slōka 34 / श्लोक ३४
इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः ।
स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥।।
Slōka 35 / श्लोक ३५
अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव ।
आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥।।
Slōka 36 / श्लोक ३६
त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः ।
परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥।।
Slōka 37 / श्लोक ३७
तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव ।
हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥।।
Slōka 38 / श्लोक ३८
इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः ।
विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥।।
Slōka 39 / श्लोक ३९
शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि ।
विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥।।
Slōka 40 / श्लोक ४०
चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥।।
Slōka 41 / श्लोक ४१
अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह ।
गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥।।
Slōka 42 / श्लोक ४२
यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् ।
गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥।।
Slōka 43 / श्लोक ४३
शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् ।
क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥।।
Slōka 44 / श्लोक ४४
प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना ।
परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥।।
Slōka 45 / श्लोक ४५
जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः ।
वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥।।
Slōka 46 / श्लोक ४६
बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः ।
अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥।।
Slōka 47 / श्लोक ४७
ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः ।
वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥।।
Slōka 48 / श्लोक ४८
अनुहो नाम तस्य एष रावणस्य विभीषणः ।
पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥।।
Slōka 49 / श्लोक ४९
भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि ।
यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥।।
Slōka 50 / श्लोक ५०
अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः ।
उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥।।
Slōka 51 / श्लोक ५१
न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् ।
अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥।।
Slōka 52 / श्लोक ५२
न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः ।
वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥।।
Slōka 53 / श्लोक ५३
अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव ।
तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥।।
Slōka 54 / श्लोक ५४
ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते ।
सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥।।
Slōka 55 / श्लोक ५५
चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव ।
अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥।।
Slōka 56 / श्लोक ५६
अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः ।
विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥।।
Slōka 57 / श्लोक ५७
स एष देशः कालः च भवति इह यथा तथा ।
पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥।।
Slōka 58 / श्लोक ५८
दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि ।
युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥।।
Slōka 59 / श्लोक ५९
अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति ।
यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥।।
Slōka 60 / श्लोक ६०
पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः ।
तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥।।
Slōka 61 / श्लोक ६१
अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै ।
अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥।।
Slōka 62 / श्लोक ६२
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता ।
प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥।।
Slōka 63 / श्लोक ६३
अशन्कित मतिः स्वस्थो न शठः परिसर्पति ।
न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥।।
Slōka 64 / श्लोक ६४
आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् ।
बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥।।
Slōka 65 / श्लोक ६५
देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर ।
सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥।।
Slōka 66 / श्लोक ६६
उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् ।
वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥।।
Slōka 67 / श्लोक ६७
राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः ।
एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥।।
Slōka 68 / श्लोक ६८
यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति ।
प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥