Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 96 / सर्गः ९६

Slōka 1 / श्लोक १

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।
निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१॥

Slōka 2 / श्लोक २

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।
एवमास्ते स धर्मात्मा सीतया सह राघव: ॥ २.९६.२॥

Slōka 3 / श्लोक ३

तथा तत्रासतस्तस्य भरतस्योपयायिन: ।
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३॥

Slōka 4 / श्लोक ४

एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।
अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ॥ २.९६.४॥

Slōka 5 / श्लोक ५

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।
तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५॥

Slōka 6 / श्लोक ६

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।
उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६॥

Slōka 7 / श्लोक ७

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।
भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ॥ २.९६.७॥

Slōka 8 / श्लोक ८

गजयूथानि वा ऽरण्ये महिषा वा महावने ।
वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ॥ २.९६.८॥

Slōka 9 / श्लोक ९

राजा वा राजमात्रो वा मृगयामटते वने ।
अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९॥

Slōka 10 / श्लोक १०

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१०॥

Slōka 11 / श्लोक ११

स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।
प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ॥ २.९६.११॥

Slōka 12 / श्लोक १२

उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ॥ २.९६.१२॥

Slōka 13 / श्लोक १३

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।
शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३॥

Slōka 14 / श्लोक १४

अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४॥

Slōka 15 / श्लोक १५

तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।
अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५॥

Slōka 16 / श्लोक १६

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
दिधक्षन्निव तां सेनां रुषित: पावको यथा ॥ २.९६.१६॥

Slōka 17 / श्लोक १७

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ॥ २.९६.१७॥

Slōka 18 / श्लोक १८

एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।
विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ॥ २.९६.१८॥

Slōka 19 / श्लोक १९

भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ॥ २.९६.१९॥

Slōka 20 / श्लोक २०

गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।
अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ॥ २.९६.२०॥

Slōka 21 / श्लोक २१

अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१॥

Slōka 22 / श्लोक २२

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।
त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२॥

Slōka 23 / श्लोक २३

यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।
सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३॥

Slōka 24 / श्लोक २४

भरतस्य वधे दोषं नाहं पश्यामि राघव ।
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४॥

Slōka 25 / श्लोक २५

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५॥

Slōka 26 / श्लोक २६

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।
मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६॥

Slōka 27 / श्लोक २७

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७॥

Slōka 28 / श्लोक २८

अद्येमं संयतं क्रोधमसत्कारं च मानद ।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८॥

Slōka 29 / श्लोक २९

अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९॥

Slōka 30 / श्लोक ३०

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।
श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३०॥

Slōka 31 / श्लोक ३१

शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।
ससैन्यं भरतं हत्वा भविष्यामि न संशय: ॥ २.९६.३१ ॥