Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 44 / सर्गः ४४

Slōka 1 / श्लोक १

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ।। ७.४४.१ ॥

Slōka 2 / श्लोक २

शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ।। ७.४४.२ ॥

Slōka 3 / श्लोक ३

रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ।। ७.४४.३ ॥

Slōka 4 / श्लोक ४

उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। ७.४४.४ ॥

Slōka 5 / श्लोक ५

बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।
प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ।। ७.४४.५ ॥

Slōka 6 / श्लोक ६

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ।। ७.४४.६ ॥

Slōka 7 / श्लोक ७

विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ।। ७.४४.७ ॥

Slōka 8 / श्लोक ८

उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।। ७.४४.८ ॥

Slōka 9 / श्लोक ९

शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। ७.४४.९ ॥

Slōka 10 / श्लोक १०

गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। ७.४४.१० ॥

Slōka 11 / श्लोक ११

शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ।। ७.४४.११ ॥

Slōka 12 / श्लोक १२

कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। ७.४४.१२ ॥

Slōka 13 / श्लोक १३

प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। ७.४४.१३ ॥

Slōka 14 / श्लोक १४

आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। ७.४४.१४ ॥

Slōka 15 / श्लोक १५

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। ७.४४.१५ ॥

Slōka 16 / श्लोक १६

बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। ७.४४.१६ ॥

Slōka 17 / श्लोक १७

ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। ७.४४.१७ ॥

Slōka 18 / श्लोक १८

तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। ७.४४.१८ ॥

Slōka 19 / श्लोक १९

भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। ७.४४.१९ ॥

Slōka 20 / श्लोक २०

भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। ७.४४.२० ॥

Slōka 21 / श्लोक २१

तथा वदति काकुत्स्थे अवधानपरायणाः ।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। ७.४४.२१ ।।