Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 43 / सर्गः ४३

Slōka 1 / श्लोक १

वनं भग्नं मया चैत्यप्रसादो न विनाशितः ।
तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् ।इति ऽञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। ५.४३.२।।।।

Slōka 2 / श्लोक २

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।
आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ।। ५.४३.३।।।।

Slōka 3 / श्लोक ३

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।। ५.४३.४।।।।

Slōka 4 / श्लोक ४

संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।
हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ।। ५.४३.५।।।।

Slōka 5 / श्लोक ५

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४३.६।।।।

Slōka 6 / श्लोक ६

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।
पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।। ५.४३.७।।।।

Slōka 7 / श्लोक ७

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४३.८।।।।

Slōka 8 / श्लोक ८

दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४३.९।।।।

Slōka 9 / श्लोक ९

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४३.१०।।।।

Slōka 10 / श्लोक १०

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४३.११।।।।

Slōka 11 / श्लोक ११

एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः ।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।।। ५.४३.१२।।।।

Slōka 12 / श्लोक १२

तेन शब्देन महता चैत्यपालाः शतं ययुः ।
गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ।विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ।। ५.४३.१३।।।।

Slōka 13 / श्लोक १३

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।। ५.४३.१४।।।।

Slōka 14 / श्लोक १४

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।। ५.४३.१५।।।।

Slōka 15 / श्लोक १५

ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।
। ५.४३.१६।।।।

Slōka 16 / श्लोक १६

प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् ।
उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ।ततस्तं भ्रामयामास शताधारं महाबलः ।। ५.४३.१७।।।।

Slōka 17 / श्लोक १७

तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ।
। ५.४३.१८।।टयित्वा वेगेन हनुमान् पवनात्मजः ।।।

Slōka 18 / श्लोक १८

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। ५.४३.१९।।।।

Slōka 19 / श्लोक १९

मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।। ५.४३.२०।।।।

Slōka 20 / श्लोक २०

अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।
। ५.४३.२१।।।।

Slōka 21 / श्लोक २१

दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ५.४३.२२।।।।

Slōka 22 / श्लोक २२

सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः ।
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ५.४३.२३।।।।

Slōka 23 / श्लोक २३

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।। ५.४३.२४।।।।

Slōka 24 / श्लोक २४

नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।
यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। ५.४३.२५।।