अरण्यकाण्डम्
Chapter 35 / सर्गः ३५
Slōka 1 / श्लोक १
ततः शूर्पणखा वाक्यम् तत् श्रुत्वा रोम हर्षणम् ।
सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह ॥३-३५-१॥
Slōka 2 / श्लोक २
तत् कार्यम् अनुगम्यांतर् यथावत् उपलभ्य च ।
दोषाणाम् च गुणानाम् च सम्प्रधार्य बल अबलम् ॥३-३५-२॥
Slōka 3 / श्लोक ३
इति कर्तव्यम् इति एव कृत्वा निश्चयम् आत्मनः ।
स्थिर बुद्धिः ततो रम्याम् यान शालाम् जगाम ह ॥३-३५-३॥
Slōka 4 / श्लोक ४
यान शालाम् ततो गत्वा प्रच्छन्नम् राक्षस अधिपः ।
सूतम् संचोदयामास रथः संयुज्यताम् इति ॥३-३५-४॥
Slōka 5 / श्लोक ५
एवम् उक्तः क्षणेन एव सारथिः लघु विक्रमः ।
रथम् संयोजयामास तस्य अभिमतम् उत्तमम् ॥३-३५-५॥
Slōka 6 / श्लोक ६
कांचनम् रथम् आस्थाय कामगम् रत्न भूषितम् ।
पिशाच वदनैः युक्तम् खरैः कनक भूषणैः ॥३-३५-६॥
Slōka 7 / श्लोक ७
मेघ प्रतिम नादेन स तेन धनद अनुजः ।
राक्षसाधिपतिः श्रीमान् ययौ नद नदी पतिम् ॥३-३५-७॥
Slōka 8 / श्लोक ८
स श्वेत वाल व्यजनः श्वेतः छत्रो दशाननः ।
स्निग्ध वैदूर्य संकाश तप्त कान्चन भूषणः ॥३-३५-८॥
Slōka 9 / श्लोक ९
दशग्रीवो विम्शति भुजो दर्शनीय परिच्छदः ।
त्रिदश अरिः मुनीन्द्र घ्नो दश शीर्ष इव अद्रि राट् ॥३-३५-९॥
Slōka 10 / श्लोक १०
कामगम् रथम् आस्थाय शुशुभे राक्षसाधिपः ।
विद्युन् मण्डलवान् मेघः स बलाक इव अंबरे ॥३-३५-१०॥
Slōka 11 / श्लोक ११
स शैलम् सागर अनूपम् वीर्यवान् अवलोकयन् ।
नाना पुष्प फलैर् वृक्षैर् अनुकीर्णम् सहस्रशः ॥३-३५-११॥
Slōka 12 / श्लोक १२
शीत मंगल तोयाभिः पद्मिनीभिः समंततः ।
विशालैः आश्रम पदैः वेदिमद्भिः अलंकृतम् ॥३-३५-१२॥
Slōka 13 / श्लोक १३
कदल्य अटवि संशोभम् नालिकेर उपशोभितम् ।
सालैः तालैः तमालैः च तरुभिः च सुपुष्पितैः ॥३-३५-१३॥
Slōka 14 / श्लोक १४
अत्यन्त नियत आहारैः शोभितम् परम ऋषिभिः ।
नागैः सुपर्णैः गंधर्वैः किंनरैः च सहस्रशः ॥३-३५-१४॥
Slōka 15 / श्लोक १५
जित कामैः च सिद्धैः च चारणैः च उपशोभितम् ।
आजैः वैखानसैः माषैः वालखिल्यैः मरीचिपैः ॥३-३५-१५॥
Slōka 16 / श्लोक १६
दिव्य आभरण माल्याभिः दिव्य रूपाभिः आवृतम् ।
क्रीडा रति विधिज्ञाभिः अप्सरोभिः सहस्रशः ॥३-३५-१६॥
Slōka 17 / श्लोक १७
सेवितम् देव पत्नीभिः श्रीमतीभिः उपासितम् ।
देव दानव सन्घैः च चरितम् तु अमृत अशिभिः ॥३-३५-१७॥
Slōka 18 / श्लोक १८
हंस क्रौन्च प्लव आकीर्णम् सारसैः संप्रणादितम् ।
वैदूर्य प्रस्तरम् स्निग्धम् सांद्रम् सागर तेजसा ॥३-३५-१८॥
Slōka 19 / श्लोक १९
पाण्डुराणि विशालानि दिव्य माल्य युतानि च ।
तूर्य गीत अभिजुष्टानि विमानानि समंततः ॥३-३५-१९॥
Slōka 20 / श्लोक २०
तपसा जित लोकानाम् कामगान् अभिसंपतन् ।
गन्धर्व अप्सरसः चैव ददर्श धनदानुजः ॥३-३५-२०॥
Slōka 21 / श्लोक २१
निर्यास रस मूलानाम् चंदनानाम् सहस्रशः ।
वनानि पश्यन् सौम्यानि घ्राण तृप्ति कराणि च ॥३-३५-२१॥
Slōka 22 / श्लोक २२
अगुरूणाम् च मुख्यानाम् वनानि उपवनानि च ।
तक्कोलानाम् च जात्यानाम् फलानाम् च सुगन्धिनाम् ॥३-३५-२२॥
Slōka 23 / श्लोक २३
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः ॥३-३५-२३॥
Slōka 24 / श्लोक २४
शैलानि प्रवरान् चैव प्रवाल निचयान् तथा ।
कांचनानि च शृंगाणि राजतानि तथैव च ॥३-३५-२४॥
Slōka 25 / श्लोक २५
प्रस्रवाणि मनोज्ञानि प्रसन्नानि अद्भुतानि च ।
धन धान्य उपपन्नानि स्त्री रत्नैः आवृतानि च ॥३-३५-२५॥
Slōka 26 / श्लोक २६
हस्ति अश्व रथ गाढानि नगराणि विलोकयन् ।
तम् समम् सर्वतः स्निग्धम् मृदु संस्पर्श मारुतम् ॥३-३५-२६॥
Slōka 27 / श्लोक २७
अनूपे सिन्धु राजस्य ददर्श त्रिदिव उपमम् ।
तत्र अपश्यत् स मेघ आभम् न्यग्रोधम् मुनिभिर् वृतम् ॥३-३५-२७॥
Slōka 28 / श्लोक २८
समंतात् यस्य ताः शाखाः शत योजनम् आयताः ।
यस्य हस्तिनम् आदाय महा कायम् च कच्छपम् ॥३-३५-२८॥
Slōka 29 / श्लोक २९
भक्षार्थम् गरुडः शाखाम् आजगाम महाबलः ।
तस्य ताम् सहसा शाखाम् भारेण पतगोत्तमः ॥३-३५-२९॥
Slōka 30 / श्लोक ३०
सुपर्णः पर्ण बहुलाम् बभंज अथ महाबलः ।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३-३५-३०॥
Slōka 31 / श्लोक ३१
अजा बभूवुः धूम्राः च संगताः परमर्षयः ।
तेषाम् दयाअर्थम् गरुडः ताम् शाखाम् शत योजनाम् ॥३-३५-३१॥
Slōka 32 / श्लोक ३२
भग्नम् आदाय वेगेन तौ च उभौ गज कच्छपौ ।
एक पादेन धर्म आत्मा भक्षयित्वा तत् आमिषम् ॥३-३५-३२॥
Slōka 33 / श्लोक ३३
निषाद विषयम् हत्वा शाखया पतगोत्तमः ।
प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महामुनीन् ॥३-३५-३३॥
Slōka 34 / श्लोक ३४
स तेन तु प्रहर्षेण द्विगुणी कृत विक्रमः ।
अमृत आनयनार्थम् वै चकार मतिमान् मतिम् ॥३-३५-३४॥
Slōka 35 / श्लोक ३५
अयो जालानि निर्मथ्य भित्त्वा रत्न गृहम् वरम् ।
महेन्द्र भवनात् गुप्तम् आजहार अमृतम् ततः ॥३-३५-३५॥
Slōka 36 / श्लोक ३६
तम् महर्षि गणैः जुष्टम् सुपर्ण कृत लक्षणम् ।
नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद अनुजः ॥३-३५-३६॥
Slōka 37 / श्लोक ३७
तम् तु गत्वा परम् पारम् समुद्रस्य नदी पतेः ।
ददर्श आश्रमम् एकांते पुण्ये रम्ये वनांतरे ॥३-३५-३७॥
Slōka 38 / श्लोक ३८
तत्र कृष्ण अजिन धरम् जटा वल्कल धारिणम् ।
ददर्श नियत आहारम् मारीचम् नाम राक्षसम् ॥३-३५-३८॥
Slōka 39 / श्लोक ३९
स रावणः समागम्य विधिवत् तेन रक्षसा ।
मारीचेन अर्चितो राजा सर्व कामैः अमानुषैः ॥३-३५-३९॥
Slōka 40 / श्लोक ४०
तम् स्वयम् पूजयित्वा च भोजनेन उदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३५-४०॥
Slōka 41 / श्लोक ४१
कच्चित् ते कुशलम् राजन् लंकायाम् राक्षसेश्वर ।
केन अर्थेन् पुनः त्वम् वै तूर्णम् एव इह आगतः ॥३-३५-४१॥
Slōka 42 / श्लोक ४२
एवम् उक्तो महातेजा मारीचेन स रावण ।
ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३५-४२॥