युद्धकाण्डम्
Chapter 29 / सर्गः २९
Slōka 1 / श्लोक १
शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।
लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥।।
Slōka 2 / श्लोक २
समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।
सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥।।
Slōka 3 / श्लोक ३
अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।
हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥।।
Slōka 4 / श्लोक ४
सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।
गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥।।
Slōka 5 / श्लोक ५
किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।
भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥।।
Slōka 6 / श्लोक ६
अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।
रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥।।
Slōka 7 / श्लोक ७
न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।
विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥।।
Slōka 8 / श्लोक ८
रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।
उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥।।
Slōka 9 / श्लोक ९
आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।
सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥।।
Slōka 10 / श्लोक १०
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।
ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥।।
Slōka 11 / श्लोक ११
किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।
यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥।।
Slōka 12 / श्लोक १२
अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥।।
Slōka 13 / श्लोक १३
हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।
यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥।।
Slōka 14 / श्लोक १४
अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।
न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥।।
Slōka 15 / श्लोक १५
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥।।
Slōka 16 / श्लोक १६
रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।
अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥।।
Slōka 17 / श्लोक १७
उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥।।
Slōka 18 / श्लोक १८
ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।
उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥।।
Slōka 19 / श्लोक १९
तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥।
।
Slōka 20 / श्लोक २०
चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।
इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥।।
Slōka 21 / श्लोक २१
मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।
कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥।।
Slōka 22 / श्लोक २२
विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।
चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥।।
Slōka 23 / श्लोक २३
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।
चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥।।
Slōka 24 / श्लोक २४
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।
ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥।।
Slōka 25 / श्लोक २५
कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।
ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥।।
Slōka 26 / श्लोक २६
प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।
प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥।।
Slōka 27 / श्लोक २७
ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।
विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥।।
Slōka 28 / श्लोक २८
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।
मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥।।
Slōka 29 / श्लोक २९
अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।
वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥।।
Slōka 30 / श्लोक ३०
पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।
ततो दशग्रीवम् उपस्थितास् ते ।चारा बहिर् नित्य चरा निशा चराः ।गिरेः सुवेलस्य समीप वासिनम् ।न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥