Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 8 / सर्गः ८

Slōka 1 / श्लोक १

हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।
माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। ७.८.१ ॥

Slōka 2 / श्लोक २

संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।
पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। ७.८.२ ॥

Slōka 3 / श्लोक ३

नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।
अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। ७.८.३ ॥

Slōka 4 / श्लोक ४

पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। ७.८.४ ॥

Slōka 5 / श्लोक ५

युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर ।
 ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। ७.८.५ ॥

Slōka 6 / श्लोक ६

माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।
उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ७.८.६ ॥

Slōka 7 / श्लोक ७

युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् ।
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। ७.८.७ ॥

Slōka 8 / श्लोक ८

प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।
सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। ७.८.८ ॥

Slōka 9 / श्लोक ९

देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।
शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ७.८.९ ॥

Slōka 10 / श्लोक १०

माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।
हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। ७.८.१० ॥

Slōka 11 / श्लोक ११

ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ७.८.११ ॥

Slōka 12 / श्लोक १२

स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता ।
काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ७.८.१२ ॥

Slōka 13 / श्लोक १३

सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते ।
अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। ७.८.१३ ॥

Slōka 14 / श्लोक १४

तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।
माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। ७.८.१४ ॥

Slōka 15 / श्लोक १५

ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् ।
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। ७.८.१५ ॥

Slōka 16 / श्लोक १६

तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।
ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। ७.८.१६ ॥

Slōka 17 / श्लोक १७

ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः ।
आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। ७.८.१७ ॥

Slōka 18 / श्लोक १८

वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।
व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। ७.८.१८ ॥

Slōka 19 / श्लोक १९

द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।
सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। ७.८.१९ ॥

Slōka 20 / श्लोक २०

पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। ७.८.२० ॥

Slōka 21 / श्लोक २१

एवं ते राक्षसा तेन हरिणा कमलेक्षण ।
बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। ७.८.२१ ॥

Slōka 22 / श्लोक २२

अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। ७.८.२२ ॥

Slōka 23 / श्लोक २३

सुमालिनं समासाद्य राक्षसं रघुसत्तम ।
स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। ७.८.२३ ॥

Slōka 24 / श्लोक २४

ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। ७.८.२४ ॥

Slōka 25 / श्लोक २५

न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।
ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। ७.८.२५ ॥

Slōka 26 / श्लोक २६

भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।
राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। ७.८.२६ ॥

Slōka 27 / श्लोक २७

नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।
उत्पद्यते दस्युवधे शरणागतवत्सलः ।। ७.८.२७ ॥

Slōka 28 / श्लोक २८

एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।
भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। ७.८.२८ ॥

Slōka 29 / श्लोक २९

चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।
पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। ७.८.२९ ।।