Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 105 / सर्गः १०५

Slōka 1 / श्लोक १

तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: ।
शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ॥ २.१०५.१॥

Slōka 2 / श्लोक २

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२॥

Slōka 3 / श्लोक ३

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३॥

Slōka 4 / श्लोक ४

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४॥

Slōka 5 / श्लोक ५

महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५॥

Slōka 6 / श्लोक ६

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: ।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६॥

Slōka 7 / श्लोक ७

सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते ।
राम तेन तु दुर्जीवं य: परानुपजीवति ॥ २.१०५.७॥

Slōka 8 / श्लोक ८

यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: ।
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ॥ २.१०५.८॥

Slōka 9 / श्लोक ९

स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ॥ २.१०५.९॥

Slōka 10 / श्लोक १०

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।
यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१०॥

Slōka 11 / श्लोक ११

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: ।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११॥

Slōka 12 / श्लोक १२

तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: ।
अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ॥ २.१०५.१२॥

Slōka 13 / श्लोक १३

तस्य साध्वित्यमन्यन्त नागरा विविधा जना: ।
भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ॥ २.१०५.१३॥

Slōka 14 / श्लोक १४

तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
राम: कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४॥

Slōka 15 / श्लोक १५

नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: ।
इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ॥ २.१०५.१५॥

Slōka 16 / श्लोक १६

सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६॥

Slōka 17 / श्लोक १७

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७॥

Slōka 18 / श्लोक १८

यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।
तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ॥ २.१०५.१८॥

Slōka 19 / श्लोक १९

अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९॥

Slōka 20 / श्लोक २०

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ॥ २.१०५.२०॥

Slōka 21 / श्लोक २१

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१॥

Slōka 22 / श्लोक २२

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२॥

Slōka 23 / श्लोक २३

गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: ।
जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३॥

Slōka 24 / श्लोक २४

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४॥

Slōka 25 / श्लोक २५

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ॥ २.१०५.२५॥

Slōka 26 / श्लोक २६

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६॥

Slōka 27 / श्लोक २७

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ॥ २.१०५.२७॥

Slōka 28 / श्लोक २८

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ॥ २.१०५.२८॥

Slōka 29 / श्लोक २९

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: ।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९॥

Slōka 30 / श्लोक ३०

एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: ।
तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ॥ २.१०५.३०॥

Slōka 31 / श्लोक ३१

वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: ।
आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ॥ २.१०५.३१॥

Slōka 32 / श्लोक ३२

धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः ।
धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ॥ २.१०५.३२॥

Slōka 33 / श्लोक ३३

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।
अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ॥ २.१०५.३३॥

Slōka 34 / श्लोक ३४

कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: ।
स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ॥ २.१०५.३४॥

Slōka 35 / श्लोक ३५

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ॥ २.१०५.३५॥

Slōka 36 / श्लोक ३६

आयुरुत्तममासाद्य भोगानपि च राघव: ।
स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ॥ २.१०५.३६॥

Slōka 37 / श्लोक ३७

स जीर्णं मानुषं देहं परित्यज्य पिता हि न: ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७॥

Slōka 38 / श्लोक ३८

तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति ।
तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ॥ २.१०५.३८॥

Slōka 39 / श्लोक ३९

एते बहुविधा: शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९॥

Slōka 40 / श्लोक ४०

स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।
तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४०॥

Slōka 41 / श्लोक ४१

यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१॥

Slōka 42 / श्लोक ४२

न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।
तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ॥ २.१०५.४२॥

Slōka 43 / श्लोक ४३

तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: ।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३॥

Slōka 44 / श्लोक ४४

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४॥

Slōka 45 / श्लोक ४५

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।
निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ॥ २.१०५.४५॥

Slōka 46 / श्लोक ४६

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ॥ २.१०५.४६ ॥