सुन्दरकाण्डम्
Chapter 6 / सर्गः ६
Slōka 1 / श्लोक १
स निकामम् विमानेषु विषण्णः काम रूपधृत् ।
विचचार पुनर्लङ्काम् लाघवेन समन्वितः ॥५-६-१॥
Slōka 2 / श्लोक २
आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ।
प्राकारेण अर्क वर्णेन भास्वरेण अभिसम्व्Rतम् ॥५-६-२॥
Slōka 3 / श्लोक ३
रक्षितम् राक्षसैर् भीमैः सिम्हैर् इव महद् वनम् ।
समीक्षमाणो भवनम् चकाशे कपि कुन्जरः ॥५-६-३॥
Slōka 4 / श्लोक ४
रूप्य कोप हितैः चित्रैः तोरणैर् हेम भूषितैः ।
विचित्राभिः च कक्ष्याभिर् द्वारैः च रुचिरैर् व्Rतम् ॥५-६-४॥
Slōka 5 / श्लोक ५
गज आस्थितैर् महा मात्रैः शूरैः च विगत श्रमैः ।
उपस्थितम् असम्हार्यैर् हयैः स्यन्दन यायिभिः ॥५-६-५॥
Slōka 6 / श्लोक ६
सिम्ह व्याघ्र तनु त्राणैर् दान्त कान्चन राजतैः ।
घोषवद्भिर् विचित्रैः च सदा विचरितम् रथैः ॥५-६-६॥
Slōka 7 / श्लोक ७
बहु रत्न समाकीर्णम् पर अर्ध्य आसन भाजनम् ।
महा रथ समावासम् महा रथ महा आसनम् ॥५-६-७॥
Slōka 8 / श्लोक ८
दृश्यैः च परम उदारैः तैः तैः च मृग पक्षिभिः ।
विविधैर् बहु साहस्रैः परिपूर्णम् समन्ततः ॥५-६-८॥
Slōka 9 / श्लोक ९
विनीतैर् अन्त पालैः च रक्षोभिः च सुरक्षितम् ।
मुख्याभिः च वर स्त्रीभिः परिपूर्णम् समन्ततः ॥५-६-९॥
Slōka 10 / श्लोक १०
मुदित प्रमदा रत्नम् राक्षस इन्द्र निवेशनम् ।
वर आभरण निर्ह्रादैः समुद्र स्वन निह्स्वनम् ॥५-६-१०॥
Slōka 11 / श्लोक ११
तद् राज गुण सम्पन्नम् मुख्यैः च वर चन्दनैः ।
भेरी म्Rदन्ग अभिरुतम् शन्ख घोष विनादितम् ॥५-६-११॥
Slōka 12 / श्लोक १२
भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् ।
नित्य अर्चितम् पर्व हुतम् पूजितम् राक्षसैः सदा ॥५-६-१२॥
Slōka 13 / श्लोक १३
समुद्रम् इव गम्भीरम् समुद्रम् इव निह्स्वनम् ।
महात्मानो महद् वेश्म महा रत्न परिच्चदम् ॥५-६-१३॥
Slōka 14 / श्लोक १४
महा जन समाकीर्णम् ददर्श स महा कपिः ।
विराजमानम् वपुषा गज अश्व रथ सम्कुलम् ॥५-६-१४॥
Slōka 15 / श्लोक १५
लन्का आभरणम् इति एव सो अमन्यत महा कपिः ।
चचार हनुमाम्स्तत्र रावणस्य समीपतः ॥५-६-१५॥
Slōka 16 / श्लोक १६
गृहाद् गृहम् राक्षसानाम् उद्यानानि च वानरः ।
वीक्षमाणो हि असम्त्रस्तः प्रासादामः च चचार सः ॥५-६-१६॥
Slōka 17 / श्लोक १७
अवप्लुत्य महा वेगः प्रहस्तस्य निवेशनम् ।
ततो अन्यत् पुप्लुवे वेश्म महा पार्श्वस्य वीर्यवान् ॥५-६-१७॥
Slōka 18 / श्लोक १८
अथ मेघ प्रतीकाशम् कुम्भ कर्ण निवेशनम् ।
विभीषणस्य च तथा पुप्लुवे स महा कपिः ॥५-६-१८॥
Slōka 19 / श्लोक १९
महा उदरस्य च तथा विरूप अक्षस्य चैव हि ।
विद्युज् जिह्वस्य भवनम् विद्युन् मालेः तथैव च ॥५-६-१९॥
Slōka 20 / श्लोक २०
वज्र दम्ष्ट्रस्य च तथा पुप्लुवे स महा कपिः ।
शुकस्य च महा वेगः सारणस्य च धीमतः ।तथा च इन्द्रजितो वेश्म जगाम हरि यूथपः ॥५-६-२०॥
Slōka 21 / श्लोक २१
जम्बु मालेः सुमालेः च जगाम हरि यूथपः ॥५-६-२१॥
Slōka 22 / श्लोक २२
रश्मि केतोः च भवनम् सूर्य शत्रोः तथैव च ।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥५-६-२२॥
Slōka 23 / श्लोक २३
धूम्र अक्षस्य च सम्पातेर् भवनम् मारुत आत्मजः ।
विद्युद् रूपस्य भीमस्य घनस्य विघनस्य च ॥५-६-२३॥
Slōka 24 / श्लोक २४
शुक नाभस्य वक्रस्य शठस्य विकटस्य च ।
ह्रस्व कर्णस्य दम्ष्ट्रस्य रोमशस्य च रक्षसः ॥५-६-२४॥
Slōka 25 / श्लोक २५
युद्ध उन्मत्तस्य मत्तस्य ध्वज ग्रीवस्य नादिनः ।
विद्युज् जिह्व इन्द्र जिह्वानाम् तथा हस्ति मुखस्य च ॥५-६-२५॥
Slōka 26 / श्लोक २६
करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।
क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥५-६-२६॥
Slōka 27 / श्लोक २७
तेषु तेषु महा अर्हेषु भवनेषु महा यशाः ।
तेषाम् R^द्धिमताम् ऋद्धिम् ददर्श स महा कपिः ॥५-६-२७॥
Slōka 28 / श्लोक २८
सर्वेषाम् समतिक्रम्य भवनानि समन्ततः ।
आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ॥५-६-२८॥
Slōka 29 / श्लोक २९
रावणस्य उपशायिन्यो ददर्श हरि सत्तमः ।
विचरन् हरि शार्दूलो राक्षसीर् विकृत ईक्षणाः ॥५-६-२९॥
Slōka 30 / श्लोक ३०
शूल मुद्गल हस्ताः च शक्तो तोमर धारिणीः ।
ददर्श विविधान् गुल्मामः तस्य रक्षः पतेर् गृहे ।राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥५-६-३०॥
Slōka 31 / श्लोक ३१
रक्तान् श्वेतान् सितामः चैव हरीमः चैव महा जवान् ॥५-६-३१॥
Slōka 32 / श्लोक ३२
कुलीनान् रूप सम्पन्नान् गजान् पर गज आरुजान् ।
निष्ठितान् गज शिखायाम् ऐरावत समान् युधि ॥५-६-३२॥
Slōka 33 / श्लोक ३३
निहन्त्RRन् पर सैन्यानाम् गृहे तस्मिन् ददर्श सः ।
क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥५-६-३३॥
Slōka 34 / श्लोक ३४
मेघ स्तनित निर्घोषान् दुर्धर्षान् समरे परैः ।
सहस्रम् वाहिनीः तत्र जाम्बूनद परिष्कृताः ॥५-६-३४॥
Slōka 35 / श्लोक ३५
हेम जालैर् अविच्चिन्नाः तरुण आदित्य सम्निभाः ।
ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ॥५-६-३५॥
Slōka 36 / श्लोक ३६
शिबिका विविध आकाराः स कपिर् मारुत आत्मजः ।
लता गृहाणि चित्राणि चित्र शाला गृहाणि च ॥५-६-३६॥
Slōka 37 / श्लोक ३७
क्रीडा गृहाणि च अन्यानि दारु पर्वतकान् अपि ।
कामस्य गृहकम् रम्यम् दिवा गृहकम् एव च ॥५-६-३७॥
Slōka 38 / श्लोक ३८
ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ।
स मन्दर तल प्रख्यम् मयूर स्थान सम्कुलम् ॥५-६-३८॥
Slōka 39 / श्लोक ३९
ध्वज यष्टिभिर् आकीर्णम् ददर्श भवन उत्तमम् ।
अनन्त रत्न निचयम् निधि जालम् समन्ततः ॥५-६-३९॥
Slōka 40 / श्लोक ४०
धीर निष्ठित कर्म अन्तम् गृहम् भूत पतेर् इव ।
अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च ॥५-६-४०॥
Slōka 41 / श्लोक ४१
विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः ।
जाम्बू नदमयानि एव शयनानि आसनानि च ॥५-६-४१॥
Slōka 42 / श्लोक ४२
भाजनानि च शुभ्राणि ददर्श हरि यूथपः ।
मध्व् आसव कृत क्लेदम् मणि भाजन सम्कुलम् ॥५-६-४२॥
Slōka 43 / श्लोक ४३
मनो रमम् असम्बाधम् कुबेर भवनम् यथा ।
नूपुराणाम् च घोषेण कान्चीनाम् निनदेन च ॥५-६-४३॥
Slōka 44 / श्लोक ४४
मृदन्ग तल घोषैः च घोषवद्भिर् विनादितम् ।
प्रासाद सम्घात युतम् स्त्री रत्न शत सम्कुलम् ॥५-६-४४॥
Slōka 45 / श्लोक ४५
सुव्यूढ कक्ष्यम् हनुमान् प्रविवेश महा गृहम् ।