उत्तरकाण्डम्डम्
Chapter 98 / सर्गः ९८
Slōka 1 / श्लोक १
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।
चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ।। ७.९८.१ ॥
Slōka 2 / श्लोक २
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः ।
अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ।। ७.९८.२ ॥
Slōka 3 / श्लोक ३
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।
क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। ७.९८.३ ॥
Slōka 4 / श्लोक ४
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।
पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। ७.९८.४ ॥
Slōka 5 / श्लोक ५
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।
ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। ७.९८.५ ॥
Slōka 6 / श्लोक ६
वसुधे देवि भवति सीता निर्यात्यतां मम ।
दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। ७.९८.६ ॥
Slōka 7 / श्लोक ७
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।
कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। ७.९८.७ ॥
Slōka 8 / श्लोक ८
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।
पाताले नाकपृष्ठे वा वसेयं सहितस्तया ।। ७.९८.८ ॥
Slōka 9 / श्लोक ९
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते ।
न मे दास्यसि चेत्सीतां यथारूपां महीतले ।। ७.९८.९ ॥
Slōka 10 / श्लोक १०
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् ।
नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ।। ७.९८.१० ॥
Slōka 11 / श्लोक ११
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।
ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। ७.९८.११ ॥
Slōka 12 / श्लोक १२
राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।
स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। ७.९८.१२ ॥
Slōka 13 / श्लोक १३
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।
इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ।। ७.९८.१३ ॥
Slōka 14 / श्लोक १४
सीता हि विमला साध्वी तव पूर्वपरायणा ।
नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। ७.९८.१४ ॥
Slōka 15 / श्लोक १५
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।
अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ।। ७.९८.१५ ॥
Slōka 16 / श्लोक १६
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।
सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ।। ७.९८.१६ ॥
Slōka 17 / श्लोक १७
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।
भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ।। ७.९८.१७ ॥
Slōka 18 / श्लोक १८
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।
नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।। ७.९८.१८ ॥
Slōka 19 / श्लोक १९
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह ।
दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। ७.९८.१९ ॥
Slōka 20 / श्लोक २०
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।
शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। ७.९८.२० ॥
Slōka 21 / श्लोक २१
उत्तरं नाम काव्यस्य शेषमत्र महायशः ।
तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ।। ७.९८.२१ ॥
Slōka 22 / श्लोक २२
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।
परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। ७.९८.२२ ॥
Slōka 23 / श्लोक २३
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।
जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ।। ७.९८.२३ ॥
Slōka 24 / श्लोक २४
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।
ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ।। ७.९८.२४ ॥
Slōka 25 / श्लोक २५
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् ।
श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ।। ७.९८.२५ ॥
Slōka 26 / श्लोक २६
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।
भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ।। ७.९८.२६ ॥
Slōka 27 / श्लोक २७
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ ।
तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। ७.९८.२७ ।।