Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 23 / सर्गः २३

Slōka 1 / श्लोक १

तथा तासां वदन्तीनां परुषं दारुणं बहु ।
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२३.१।।।।

Slōka 2 / श्लोक २

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२३.२।।।।

Slōka 3 / श्लोक ३

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२३.३।।।।

Slōka 4 / श्लोक ४

सा राक्षसी मध्यगता सीता सुरसुतोपमा ।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२३.४।।।।

Slōka 5 / श्लोक ५

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५।।।।

Slōka 6 / श्लोक ६

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।
चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२३.६।।।।

Slōka 7 / श्लोक ७

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।
चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ।। ५.२३.७।।।।

Slōka 8 / श्लोक ८

सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ।। ५.२३.८।।।।

Slōka 9 / श्लोक ९

तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा ।
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२३.९।।।।

Slōka 10 / श्लोक १०

सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२३.१०।।।।

Slōka 11 / श्लोक ११

हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ।। ५.२३.११।।।।

Slōka 12 / श्लोक १२

लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२३.१२।।।।

Slōka 13 / श्लोक १३

यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता ।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२३.१३।।।।

Slōka 14 / श्लोक १४

एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।
समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ।। ५.२३.१४।।।।

Slōka 15 / श्लोक १५

भर्तारं तमपश्यन्ती राक्षसीवशमागता ।
सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२३.१५।।।।

Slōka 16 / श्लोक १६

तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२३.१६।।।।

Slōka 17 / श्लोक १७

सर्वथा तेन हीनाया रामेण विदितात्मना ।
तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२३.१७।।।।

Slōka 18 / श्लोक १८

कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२३.१८।।।।

Slōka 19 / श्लोक १९

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ।। ५.२३.१९।।।।

Slōka 20 / श्लोक २०

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२३.२०।।