Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 82 / सर्गः ८२

Slōka 1 / श्लोक १

ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ।। ७.८२.१ ॥

Slōka 2 / श्लोक २

तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ।। ७.८२.२ ॥

Slōka 3 / श्लोक ३

तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् ।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ।। ७.८२.३ ॥

Slōka 4 / श्लोक ४

स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ।। ७.८२.४ ॥

Slōka 5 / श्लोक ५

प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ।। ७.८२.५ ॥

Slōka 6 / श्लोक ६

अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ।। ७.८२.६ ॥

Slōka 7 / श्लोक ७

धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ।। ७.८२.७ ॥

Slōka 8 / श्लोक ८

तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ।। ७.८२.८ ॥

Slōka 9 / श्लोक ९

अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ।। ७.८२.९ ॥

Slōka 10 / श्लोक १०

मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।
पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ।। ७.८२.१० ॥

Slōka 11 / श्लोक ११

ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ।। ७.८२.११ ॥

Slōka 12 / श्लोक १२

ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ।। ७.८२.१२ ॥

Slōka 13 / श्लोक १३

गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ।। ७.८२.१३ ॥

Slōka 14 / श्लोक १४

एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ।। ७.८२.१४ ॥

Slōka 15 / श्लोक १५

अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ।। ७.८२.१५ ॥

Slōka 16 / श्लोक १६

तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।
अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ।। ७.८२.१६ ॥

Slōka 17 / श्लोक १७

स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे ।। ७.८२.१७ ॥

Slōka 18 / श्लोक १८

ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ।। ७.८२.१८ ॥

Slōka 19 / श्लोक १९

ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।
विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ।। ७.८२.१९ ॥

Slōka 20 / श्लोक २०

कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।ममागमनमाख्याय शब्दापयत मा चिरम् ।। ७.८२.२० ।।