Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 83 / सर्गः ८३

Slōka 1 / श्लोक १

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।
द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। ७.८३.१ ॥

Slōka 2 / श्लोक २

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।
परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। ७.८३.२ ॥

Slōka 3 / श्लोक ३

कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। ७.८३.३ ॥

Slōka 4 / श्लोक ४

अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। ७.८३.४ ॥

Slōka 5 / श्लोक ५

युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। ७.८३.५ ॥

Slōka 6 / श्लोक ६

इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। ७.८३.६ ॥

Slōka 7 / श्लोक ७

सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। ७.८३.७ ॥

Slōka 8 / श्लोक ८

अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। ७.८३.८ ॥

Slōka 9 / श्लोक ९

श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.९ ॥

Slōka 10 / श्लोक १०

त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.१० ॥

Slōka 11 / श्लोक ११

महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.११ ॥

Slōka 12 / श्लोक १२

पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।
पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.१२ ॥

Slōka 13 / श्लोक १३

स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.१३ ॥

Slōka 14 / श्लोक १४

पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.१४ ॥

Slōka 15 / श्लोक १५

स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.१५ ॥

Slōka 16 / श्लोक १६

भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.१६ ॥

Slōka 17 / श्लोक १७

उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.१७ ॥

Slōka 18 / श्लोक १८

इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.१८ ॥

Slōka 19 / श्लोक १९

एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.१९ ॥

Slōka 20 / श्लोक २०

लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।
बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज ।तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.२० ।।