Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 47 / सर्गः ४७

Slōka 1 / श्लोक १

सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।
समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।। ५.४७.१।।।।

Slōka 2 / श्लोक २

स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।
समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।। ५.४७.२।।।।

Slōka 3 / श्लोक ३

ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।
रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।। ५.४७.३।।।।

Slōka 4 / श्लोक ४

तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम् ।
। ५.४७.४।।।।

Slōka 5 / श्लोक ५

सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ।
सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ।। ५.४७.५।।।।

Slōka 6 / श्लोक ६

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।
दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ।। ५.४७.६।।।।

Slōka 7 / श्लोक ७

स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।
बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ।। ५.४७.७।।।।

Slōka 8 / श्लोक ८

स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।
अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ।। ५.४७.८।।।।

Slōka 9 / श्लोक ९

स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।
विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ।। ५.४७.९।।।।

Slōka 10 / श्लोक १०

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् ।
समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ।। ५.४७.१०।।।।

Slōka 11 / श्लोक ११

ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।
अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ।। ५.४७.११।।।।

Slōka 12 / श्लोक १२

स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् ।
तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ।। ५.४७.१२।।।।

Slōka 13 / श्लोक १३

ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ।। ५.४७.१३।।।।

Slōka 14 / श्लोक १४

ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् ।
समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ।। ५.४७.१४।।।।

Slōka 15 / श्लोक १५

स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।
नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ।। ५.४७.१५।।।।

Slōka 16 / श्लोक १६

ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।
उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ।। ५.४७.१६।।।।

Slōka 17 / श्लोक १७

स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।
कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ।। ५.४७.१७।।।।

Slōka 18 / श्लोक १८

ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।
शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ।। ५.४७.१८।।।।

Slōka 19 / श्लोक १९

ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।
कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ।। ५.४७.१९।।।।

Slōka 20 / श्लोक २०

स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।
समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ।। ५.४७.२०।।।।

Slōka 21 / श्लोक २१

स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः ।
समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ।। ५.४७.२१।।।।

Slōka 22 / श्लोक २२

समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।
रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ।। ५.४७.२२।।।।

Slōka 23 / श्लोक २३

स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।
शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ।। ५.४७.२३।।।।

Slōka 24 / श्लोक २४

तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः ।
अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ।। ५.४७.२४।।।।

Slōka 25 / श्लोक २५

ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् ।
महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ।। ५.४७.२५।।।।

Slōka 26 / श्लोक २६

अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।
न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ।। ५.४७.२६।।।।

Slōka 27 / श्लोक २७

अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।
असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः ।। ५.४७.२७।।।।

Slōka 28 / श्लोक २८

पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।
पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ।। ५.४७.२८।।।।

Slōka 29 / श्लोक २९

न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।
प्रमापणं त्वेव ममास्य रोचते न वर्धमानो ऽग्निरुपेक्षितुं क्षमः ।। ५.४७.२९।।।।

Slōka 30 / श्लोक ३०

इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।
चकार वेगं तु महाबलस्तदा मतिं च चक्रे ऽस्य वधे महाकपिः ।। ५.४७.३०।।।।

Slōka 31 / श्लोक ३१

स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने ।
जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ।। ५.४७.३१।।।।

Slōka 32 / श्लोक ३२

ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।
प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ।। ५.४७.३२।।।।

Slōka 33 / श्लोक ३३

स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।
तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ।। ५.४७.३३।।।।

Slōka 34 / श्लोक ३४

ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते ।
समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ।। ५.४७.३४।।।।

Slōka 35 / श्लोक ३५

स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।
मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ।। ५.४७.३५।।।।

Slōka 36 / श्लोक ३६

स भग्नबाहूरुकटीशिरोधरः क्षसन्नसृङ्निर्मथितास्थिलोचनः ।
स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ।महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ।। ५.४७.३६।।।।

Slōka 37 / श्लोक ३७

महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।
सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ।। ५.४७.३७।।।।

Slōka 38 / श्लोक ३८

निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।
तमेव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ।। ५.४७.३८।।