Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 30 / सर्गः ३०

Slōka 1 / श्लोक १

ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।
सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥।।

Slōka 2 / श्लोक २

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥।।

Slōka 3 / श्लोक ३

अयथावच् च ते वर्णो दीनः च असि निशा चर ।
न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥।।

Slōka 4 / श्लोक ४

इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।
तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥।।

Slōka 5 / श्लोक ५

न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।
विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥।।

Slōka 6 / श्लोक ६

न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।
सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥।।

Slōka 7 / श्लोक ७

प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।
बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥।।

Slōka 8 / श्लोक ८

जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।
परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥।।

Slōka 9 / श्लोक ९

परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।
रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥।।

Slōka 10 / श्लोक १०

हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।
राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥।।

Slōka 11 / श्लोक ११

एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।
द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥।।

Slōka 12 / श्लोक १२

गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।
माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥।।

Slōka 13 / श्लोक १३

पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।
सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥।।

Slōka 14 / श्लोक १४

मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।
शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥।।

Slōka 15 / श्लोक १५

यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥।।

Slōka 16 / श्लोक १६

एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।
चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥।।

Slōka 17 / श्लोक १७

कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।
कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥।।

Slōka 18 / श्लोक १८

तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।
अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥।।

Slōka 19 / श्लोक १९

अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।
इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥।।

Slōka 20 / श्लोक २०

अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।
गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥।।

Slōka 21 / श्लोक २१

गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।
कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥।।

Slōka 22 / श्लोक २२

सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥।।

Slōka 23 / श्लोक २३

सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।
मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥।।

Slōka 24 / श्लोक २४

पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।
अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥।।

Slōka 25 / श्लोक २५

नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।
मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥।।

Slōka 26 / श्लोक २६

पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।
गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥।।

Slōka 27 / श्लोक २७

दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।
श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥।।

Slōka 28 / श्लोक २८

पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥।।

Slōka 29 / श्लोक २९

नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥।।

Slōka 30 / श्लोक ३०

वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।
जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥।।

Slōka 31 / श्लोक ३१

लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।
यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥।।

Slōka 32 / श्लोक ३२

श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।
वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥।।

Slōka 33 / श्लोक ३३

विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।
विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥।।

Slōka 34 / श्लोक ३४

राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।
परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥।।

Slōka 35 / श्लोक ३५

इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।
सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥