Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 93 / सर्गः ९३

Slōka 1 / श्लोक १

वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। ७.९३.१ ॥

Slōka 2 / श्लोक २

स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।
एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। ७.९३.२ ॥

Slōka 3 / श्लोक ३

शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।
वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। ७.९३.३ ॥

Slōka 4 / श्लोक ४

आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।
वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ७.९३.४ ॥

Slōka 5 / श्लोक ५

स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।
कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। ७.९३.५ ॥

Slōka 6 / श्लोक ६

ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। ७.९३.६ ॥

Slōka 7 / श्लोक ७

रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। ७.९३.७ ॥

Slōka 8 / श्लोक ८

इमानि च फलान्यत्र स्वादूनि विविधानि च ।
जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ७.९३.८ ॥

Slōka 9 / श्लोक ९

न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।
मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। ७.९३.९ ॥

Slōka 10 / श्लोक १०

यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। ७.९३.१० ॥

Slōka 11 / श्लोक ११

दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। ७.९३.११ ॥

Slōka 12 / श्लोक १२

लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया ।
किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। ७.९३.१२ ॥

Slōka 13 / श्लोक १३

यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।
आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। ७.९३.१३ ॥

Slōka 14 / श्लोक १४

इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् ।
मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। ७.९३.१४ ॥

Slōka 15 / श्लोक १५

आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।
पिता हि सर्वभूतानां राजा भविति धर्मतः ।। ७.९३.१५ ॥

Slōka 16 / श्लोक १६

तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।
गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। ७.९३.१६ ॥

Slōka 17 / श्लोक १७

इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। ७.९३.१७ ॥

Slōka 18 / श्लोक १८

सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।
तथैव करवावेति निर्जग्मतुररिन्दमौ ।। ७.९३.१८ ॥

Slōka 19 / श्लोक १९

तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।
समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। ७.९३.१९ ।।