Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 6 / सर्गः ६

Slōka 1 / श्लोक १

तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। ७.६.१ ॥

Slōka 2 / श्लोक २

जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।
आधारं सर्वलोकानामाराध्यं परमं गुरुम् ।। ७.६.२ ॥

Slōka 3 / श्लोक ३

ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ।। ७.६.३ ॥

Slōka 4 / श्लोक ४

सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ।। ७.६.४ ॥

Slōka 5 / श्लोक ५

शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।
स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ।। ७.६.५ ॥

Slōka 6 / श्लोक ६

अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।
अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ।। ७.६.६ ॥

Slōka 7 / श्लोक ७

इति माली सुमाली च माल्यवांश्चैव राक्षसाः ।
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।तन्नो देव भयार्तानामभयं दातुमर्हसि ।। ७.६.७ ॥

Slōka 8 / श्लोक ८

अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।
। ७.६.८ ।।धन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। ७.६.९ ॥

Slōka 9 / श्लोक ९

अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ।। ७.६.१० ॥

Slōka 10 / श्लोक १०

एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।
गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ।। ७.६.११ ॥

Slōka 11 / श्लोक ११

ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। ७.६.१२ ॥

Slōka 12 / श्लोक १२

शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।
ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ।। ७.६.१३ ॥

Slōka 13 / श्लोक १३

सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।
आक्रम्य वरदानेन स्थानान्यपहृतानि नः ।। ७.६.१४ ॥

Slōka 14 / श्लोक १४

लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ।। ७.६.१५ ॥

Slōka 15 / श्लोक १५

स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।
शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ।। ७.६.१६ ॥

Slōka 16 / श्लोक १६

चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।
भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ।। ७.६.१७ ॥

Slōka 17 / श्लोक १७

राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।
नुदं त्वं नो भयं देव नीहारमिव भास्करः ।। ७.६.१८ ॥

Slōka 18 / श्लोक १८

इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।
अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ।। ७.६.१९ ॥

Slōka 19 / श्लोक १९

सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ।। ७.६.२० ॥

Slōka 20 / श्लोक २०

तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।
निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ।। ७.६.२१ ॥

Slōka 21 / श्लोक २१

इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।
यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ।। ७.६.२२ ॥

Slōka 22 / श्लोक २२

विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ।। ७.६.२३ ॥

Slōka 23 / श्लोक २३

अमरा ऋषयश्चैव सङ्गम्य किल शकरम् ।
अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ।। ७.६.२४ ॥

Slōka 24 / श्लोक २४

सुकेशतनया देव वरदानबलोद्धताः ।
बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ।। ७.६.२५ ॥

Slōka 25 / श्लोक २५

राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।
स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ।। ७.६.२६ ॥

Slōka 26 / श्लोक २६

तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।
राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ।। ७.६.२७ ॥

Slōka 27 / श्लोक २७

इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।
शिरः करं च धुन्वान इदं वचनमब्रवीत् ।। ७.६.२८ ॥

Slōka 28 / श्लोक २८

अवध्या मम ते देवाः सुकेशतनया रणे ।
मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ।। ७.६.२९ ॥

Slōka 29 / श्लोक २९

यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।
हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ।। ७.६.३० ॥

Slōka 30 / श्लोक ३०

हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।
नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ।। ७.६.३१ ॥

Slōka 31 / श्लोक ३१

ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।
सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ।। ७.६.३२ ॥

Slōka 32 / श्लोक ३२

देवानां भयभीतानां हरिणा राक्षसर्षभौ ।
प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ।। ७.६.३३ ॥

Slōka 33 / श्लोक ३३

हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।
नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ।। ७.६.३४ ॥

Slōka 34 / श्लोक ३४

राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः ।
यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ।। ७.६.३५ ॥

Slōka 35 / श्लोक ३५

असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।
सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ।। ७.६.३६ ॥

Slōka 36 / श्लोक ३६

सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।
सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ।। ७.६.३७ ॥

Slōka 37 / श्लोक ३७

नारायणेन निहताः शतशो ऽथ सहस्रशः ।
एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ।। ७.६.३८ ॥

Slōka 38 / श्लोक ३८

ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ।। ७.६.३९ ॥

Slōka 39 / श्लोक ३९

स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।
आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ।। ७.६.४० ॥

Slōka 40 / श्लोक ४०

देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।
जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ।। ७.६.४१ ॥

Slōka 41 / श्लोक ४१

नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।
अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ।। ७.६.४२ ॥

Slōka 42 / श्लोक ४२

विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।
देवानामेव दोषेण विष्णोः प्रचलितं मनः ।। ७.६.४३ ॥

Slōka 43 / श्लोक ४३

तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।
देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। ७.६.४४ ॥

Slōka 44 / श्लोक ४४

एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।
उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥

Slōka 45 / श्लोक ४५

युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ।
। ७.६.४५ ॥

Slōka 46 / श्लोक ४६

इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः ।
युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ।। ७.६.४६ ॥

Slōka 47 / श्लोक ४७

स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।
खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ।। ७.६.४७ ॥

Slōka 48 / श्लोक ४८

मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः ।
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ।। ७.६.४८ ॥

Slōka 49 / श्लोक ४९

त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ।। ७.६.४९ ॥

Slōka 50 / श्लोक ५०

लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।
भूतानि भयदर्शीनि विमनस्कानि सर्वशः ।। ७.६.५० ॥

Slōka 51 / श्लोक ५१

रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ।
। ७.६.५१ ॥

Slōka 52 / श्लोक ५२

प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।
रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ।। ७.६.५२ ॥

Slōka 53 / श्लोक ५३

भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।
उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ।। ७.६.५३ ॥

Slōka 54 / श्लोक ५४

अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ।
वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ।। ७.६.५४ ॥

Slōka 55 / श्लोक ५५

अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।
वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ।। ७.६.५५ ॥

Slōka 56 / श्लोक ५६

सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।
गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। ७.६.५६ ॥

Slōka 57 / श्लोक ५७

राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् ।
कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥

Slōka 58 / श्लोक ५८

काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।
। ७.६.५७ ॥

Slōka 59 / श्लोक ५९

उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।
यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ।। ७.६.५८ ॥

Slōka 60 / श्लोक ६०

माल्यवांश्च सुमाली च माली च सुमहाबलाः ।
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ।। ७.६.५९ ॥

Slōka 61 / श्लोक ६१

माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।
निशाचरा ह्याश्रयन्ति धातारमिव देवताः ।। ७.६.६० ॥

Slōka 62 / श्लोक ६२

तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।
जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ७.६.६१ ॥

Slōka 63 / श्लोक ६३

राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।
देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ७.६.६२ ॥

Slōka 64 / श्लोक ६४

स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।
आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ।। ७.६.६३ ॥

Slōka 65 / श्लोक ६५

आबध्य शरसम्पूर्णे इषुधी विमले तदा ।
श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥

Slōka 66 / श्लोक ६६

शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ।
। ७.६.६४ ॥

Slōka 67 / श्लोक ६७

सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।
राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ।। ७.६.६५ ॥

Slōka 68 / श्लोक ६८

सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।
काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ७.६.६६ ॥

Slōka 69 / श्लोक ६९

स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।
समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ।। ७.६.६७ ॥

Slōka 70 / श्लोक ७०

सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।
चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ।। ७.६.६८ ॥

Slōka 71 / श्लोक ७१

ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।
निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ।। ७.६.६९ ।।