उत्तरकाण्डम्डम्
Chapter 67 / सर्गः ६७
Slōka 1 / श्लोक १
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।। ७.६७.१ ॥
Slōka 2 / श्लोक २
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।। ७.६७.२ ॥
Slōka 3 / श्लोक ३
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।। ७.६७.३ ॥
Slōka 4 / श्लोक ४
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।। ७.६७.४ ॥
Slōka 5 / श्लोक ५
अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।
मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.६७.५ ॥
Slōka 6 / श्लोक ६
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।। ७.६७.६ ॥
Slōka 7 / श्लोक ७
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ।। ७.६७.७ ॥
Slōka 8 / श्लोक ८
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ७.६७.८ ॥
Slōka 9 / श्लोक ९
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। ७.६७.९ ॥
Slōka 10 / श्लोक १०
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। ७.६७.१० ॥
Slōka 11 / श्लोक ११
यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। ७.६७.११ ॥
Slōka 12 / श्लोक १२
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। ७.६७.१२ ॥
Slōka 13 / श्लोक १३
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। ७.६७.१३ ॥
Slōka 14 / श्लोक १४
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। ७.६७.१४ ॥
Slōka 15 / श्लोक १५
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। ७.६७.१५ ॥
Slōka 16 / श्लोक १६
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। ७.६७.१६ ॥
Slōka 17 / श्लोक १७
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। ७.६७.१७ ॥
Slōka 18 / श्लोक १८
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। ७.६७.१८ ॥
Slōka 19 / श्लोक १९
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। ७.६७.१९ ॥
Slōka 20 / श्लोक २०
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। ७.६७.२० ॥
Slōka 21 / श्लोक २१
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। ७.६७.२१ ॥
Slōka 22 / श्लोक २२
एवं स राजा सुमहान्हतः सबलवाहनः ।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। ७.६७.२२ ॥
Slōka 23 / श्लोक २३
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। ७.६७.२३ ॥
Slōka 24 / श्लोक २४
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ।
एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। ७.६७.२४ ॥
Slōka 25 / श्लोक २५
शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।
विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। ७.६७.२५ ॥
Slōka 26 / श्लोक २६
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।
शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। ७.६७.२६ ।।