अरण्यकाण्डम्
Chapter 66 / सर्गः ६६
Slōka 1 / श्लोक १
तम् तथा शोक संतप्तम् विलपंतम् अनाथवत् ।
मोहेन महता आविष्टम् परिद्यूनम् अचेतनम् ॥३-६६-१॥
Slōka 2 / श्लोक २
ततः सौमित्रिः आश्वास्य मुहूर्तात् इव लक्ष्मणः ।
रामम् संबोधयामास चरणौ च अभिपीडयन् ॥३-६६-२॥
Slōka 3 / श्लोक ३
महता तपसा राम महता च अपि कर्मणा ।
राज्ञा दशरथेन असि लब्धो अमृतम् इव अमरैः ॥३-६६-३॥
Slōka 4 / श्लोक ४
तव चैव गुणैः बद्धः त्वत् वियोगात् महिपतिः ।
राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् ॥३-६६-४॥
Slōka 5 / श्लोक ५
यदि दुःखम् इदम् प्राप्तम् काकुत्स्थ न सहिष्यसे ।
प्राकृतः च अल्प सत्त्वः च इतरः कः सहिष्यति ॥३-६६-५॥
Slōka 6 / श्लोक ६
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य न आपद ।
संस्पृशन्ति अग्निवत् राजन् क्षणेन व्यपयान्ति च ॥३-६६-६॥
Slōka 7 / श्लोक ७
दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते ।
आर्ताः प्रजा नर व्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥३-६६-७॥
Slōka 8 / श्लोक ८
लोक स्वभाव एव एष ययातिः नहुष आत्मजः ।
गतः शक्रेण सालोक्यम् अनयः तम् समस्पृशत् ॥३-६६-८॥
Slōka 9 / श्लोक ९
महाऋषि यः वसिष्ठः तु यः पितुः नः पुरोहितः ।
अह्ना पुत्र शतम् जज्ञे तथैव अस्य पुनर् हतम् ॥३-६६-९॥
Slōka 10 / श्लोक १०
या च इयम् जगतो माता सर्व लोक नमस्कृता ।
अस्याः च चलनम् भूमेः दृश्यते कोसलेश्वर ॥३-६६-१०॥
Slōka 11 / श्लोक ११
यौ धर्मौ जगताम् नेत्रे यत्र सर्वम् प्रतिष्ठितम् ।
आदित्य चन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ ॥३-६६-११॥
Slōka 12 / श्लोक १२
सुमहान्ति अपि भूतानि देवाः च पुरुष ऋषभ ।
न दैवस्य प्रमुंचन्ति सर्व भूतानि देहिनः ॥३-६६-१२॥
Slōka 13 / श्लोक १३
शक्र आदिषु अपि देवेषु वर्तमानौ नय अनयौ ।
श्रूयेते नर शार्दूल न त्वम् व्यथितुम् अर्हसि ॥३-६६-१३॥
Slōka 14 / श्लोक १४
हृतायाम् अपि वैदेह्याम् नष्टायाम् अपि राघव ।
शोचितुम् न अर्हसे वीर यथा अन्यः प्राकृतः तथा ॥३-६६-१४॥
Slōka 15 / श्लोक १५
त्वत् विधा नहि शोचन्ति सततम् सर्व दर्शिनः ।
सुमहत्सु अपि कृच्छ्रेषु राम अनिर्विण्ण दर्शनाः ॥३-६६-१५॥
Slōka 16 / श्लोक १६
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिंतय ।
बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभ अशुभे ॥३-६६-१६॥
Slōka 17 / श्लोक १७
अदृष्ट गुण दोषाणाम् अधृवाणाम् च कर्मणाम् ।
न अंतरेण क्रियाम् तेषाम् फलम् इष्टम् च वर्तते ॥३-६६-१७॥
Slōka 18 / श्लोक १८
माम् एवम् हि पुरा वीर त्वम् एव बहुशो उक्तवान् ।
अनुशिष्यात् हि को नु त्वाम् अपि साक्षात् बृहस्पतिः ॥३-६६-१८॥
Slōka 19 / श्लोक १९
बुद्धिः च ते महाप्राज्ञ देवैः अपि दुर्अन्वया ।
शोकेन अभिप्रसुप्तम् ते ज्ञानम् सम्बोधयामि अहम् ॥३-६६-१९॥
Slōka 20 / श्लोक २०
दिव्यम् च मानुषम् च एवम् आत्मनः च पराक्रमम् ।
इक्ष्वाकु वृषभ अवेक्ष्य यतस्व द्विषताम् वधे ॥३-६६-२०॥
Slōka 21 / श्लोक २१
किम् ते सर्व विनाशेन कृतेन पुरुष ऋषभ ।
तम् एव तु रिपुम् पापम् विज्ञाय उद्धर्तुम् अर्हसि ॥३-६६-२१॥