Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 12 / सर्गः १२

Slōka 1 / श्लोक १

स तस्य मध्ये भवनस्य वानरो ।
लता ग्Rहामः चित्र गृहान् निशा गृहान् ।जगाम सीताम् प्रति दर्शन उत्सुको ।न च एव ताम् पश्यति चारु दर्शनाम् ॥५-१२-१॥

Slōka 2 / श्लोक २

स चिन्तयाम् आस ततो महा कपिः ।
प्रियाम् अपश्यन् रघु नन्दनस्य ताम् ।ध्रुवम् नु सीता म्रियते यथा न मे ।विचिन्वतो दर्शनम् एति मैथिली ॥५-१२-२॥

Slōka 3 / श्लोक ३

सा राक्षसानाम् प्रवरेण बाला ।
स्व शील सम्रक्षण तत् परा सती ।अनेन नूनम् प्रतिदुष्ट कर्मणा ।हता भवेद् आर्य पथे परे स्थिता ॥५-१२-३॥

Slōka 4 / श्लोक ४

विरूप रूपा विकृता विवर्चसो ।
महा आनना दीर्घ विरूप दर्शनाः ।समीक्ष्य सा राक्षस राज योषितो ।भयाद् विनष्टा जनक ईश्वर आत्मजा॥५-१२-४॥

Slōka 5 / श्लोक ५

सीताम् अद्Rष्ट्वा हि अनवाप्य पौरुषम् ।
विह्Rत्य कालम् सह वानरैः चिरम् ।न मे अस्ति सुग्रीव समीपगा गतिः ।सुतीक्ष्ण दण्डो बलवामः च वानरः ॥५-१२-५॥

Slōka 6 / श्लोक ६

दृष्टम् अन्तः पुरम् सर्वम् दृष्ट्वा रावण योषितः ।
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥

Slōka 7 / श्लोक ७

किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सम्गताः ।
गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः ॥५-१२-७॥

Slōka 8 / श्लोक ८

अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनक आत्मजाम् ।
ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥५-१२-८॥

Slōka 9 / श्लोक ९

किम् वा वक्ष्यति व्Rद्धः च जाम्बवान् अन्गदः च सः ।
गतम् पारम् समुद्रस्य वानराः च समागताः ॥५-१२-९॥

Slōka 10 / श्लोक १०

अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् ।
अनिर्वेदो हि सततम् सर्व अर्थेषु प्रवर्तकः ॥५-१२-१०॥

Slōka 11 / श्लोक ११

करोति सफलम् जन्तोः कर्म यच् च करोति सः ।
तस्माद् अनिर्वेद क्Rतम् यत्नम् चेष्टे अहम् उत्तमम् ॥५-१२-११॥

Slōka 12 / श्लोक १२

अदृष्टामः च विचेष्यामि देशान् रावण पालितान् ।
आपान शाला विचिताः तथा पुष्प गृहाणि च ॥५-१२-१२॥

Slōka 13 / श्लोक १३

चित्र शालाः च विचिता भूयः क्रीडा गृहाणि च ।
निष्कुट अन्तर रथ्याः च विमानानि च सर्वशः ॥५-१२-१३॥

Slōka 14 / श्लोक १४

इति सम्चिन्त्य भूयो अपि विचेतुम् उपचक्रमे ।
भूमी गृहामः चैत्य गृहान् गृह अतिगृहकान् अपि ॥५-१२-१४॥

Slōka 15 / श्लोक १५

उत्पतन् निपतमः च अपि तिष्ठन् गच्चन् पुनः क्वचित् ।
अपावृण्वमः च द्वाराणि कपाटानि अवघट्टयन् ॥५-१२-१५॥

Slōka 16 / श्लोक १६

प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि ।
सर्वम् अपि अवकाशम् स विचचार महा कपिः ॥५-१२-१६॥

Slōka 17 / श्लोक १७

चतुर् अन्गुल मात्रो अपि न अवकाशः स विद्यते ।
रावण अन्तः पुरे तस्मिन् यम् कपिर् न जगाम सः ॥५-१२-१७॥

Slōka 18 / श्लोक १८

प्राकर अन्तर रथ्याः च वेदिकः चैत्य सम्श्रयाः ।
श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम् ॥५-१२-१८॥

Slōka 19 / श्लोक १९

राक्षस्यो विविध आकारा विरूपा विकृताः तथा ।
दृष्टा हनूमता तत्र न तु सा जनक आत्मजा ॥५-१२-१९॥

Slōka 20 / श्लोक २०

रूपेण अप्रतिमा लोके वरा विद्या धर स्त्रियः ।
दृटा हनूमता तत्र न तु राघव नन्दिनी ॥५-१२-२०॥

Slōka 21 / श्लोक २१

नाग कन्या वर आरोहाः पूर्ण चन्द्र निभ आननाः ।
दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥५-१२-२१॥

Slōka 22 / श्लोक २२

प्रमथ्य राक्षस इन्द्रेण नाग कन्या बलाद्द् हृताः ।
दृष्टा हनूमता तत्र न सा जनक नन्दिनी ॥५-१२-२२॥

Slōka 23 / श्लोक २३

सो अपश्यमः ताम् महा बाहुः पश्यमः च अन्या वर स्त्रियः ।
विषसाद महा बाहुर् हनूमान् मारुत आत्मजः ॥५-१२-२३॥

Slōka 24 / श्लोक २४

उद्योगम् वानर इन्द्राणम् प्लवनम् सागरस्य च ।
व्यर्थम् वीक्ष्य अनिल सुतः चिन्ताम् पुनर् उपागमत् ॥५-१२-२४॥

Slōka 25 / श्लोक २५

अवतीर्य विमानाच् च हनूमान् मारुत आत्मजः ।
चिन्ताम् उपजगाम अथ शोक उपहत चेतनः ॥५-१२-२५॥