उत्तरकाण्डम्डम्
Chapter 85 / सर्गः ८५
Slōka 1 / श्लोक १
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रत ।। ७.८५.१ ॥
Slōka 2 / श्लोक २
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।
भूय एव कथां दिव्यां कथयामास सुव्रतः ।। ७.८५.२ ॥
Slōka 3 / श्लोक ३
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ।। ७.८५.३ ॥
Slōka 4 / श्लोक ४
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः ।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ।। ७.८५.४ ॥
Slōka 5 / श्लोक ५
अवश्यं करणीयं च भवतां सुखमुत्तमम् ।
तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ।। ७.८५.५ ॥
Slōka 6 / श्लोक ६
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ।। ७.८५.६ ॥
Slōka 7 / श्लोक ७
एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।
तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ।। ७.८५.७ ॥
Slōka 8 / श्लोक ८
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। ७.८५.८ ॥
Slōka 9 / श्लोक ९
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।
भजस्व परमोदार वासवं स्वेन तेजसा ।। ७.८५.९ ॥
Slōka 10 / श्लोक १०
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।
तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। ७.८५.१० ॥
Slōka 11 / श्लोक ११
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ।। ७.८५.११ ॥
Slōka 12 / श्लोक १२
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।
कथमेनं वधिष्यामः कथं न स्यात्पराजयः ।। ७.८५.१२ ॥
Slōka 13 / श्लोक १३
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ।। ७.८५.१३ ॥
Slōka 14 / श्लोक १४
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।
पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ।। ७.८५.१४ ॥
Slōka 15 / श्लोक १५
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ।। ७.८५.१५ ॥
Slōka 16 / श्लोक १६
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति ।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ।। ७.८५.१६ ॥
Slōka 17 / श्लोक १७
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ।। ७.८५.१७ ॥
Slōka 18 / श्लोक १८
त्वं गतिः परमेशान पूर्वजो जगतः पिता ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.८५.१८ ॥
Slōka 19 / श्लोक १९
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ।। ७.८५.१९ ॥
Slōka 20 / श्लोक २०
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। ७.८५.२० ॥
Slōka 21 / श्लोक २१
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ।। ७.८५.२१ ॥
Slōka 22 / श्लोक २२
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् ।
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ।। ७.८५.२२ ।।