उत्तरकाण्डम्डम्
Chapter 64 / सर्गः ६४
Slōka 1 / श्लोक १
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। ७.६४.१ ॥
Slōka 2 / श्लोक २
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। ७.६४.२ ॥
Slōka 3 / श्लोक ३
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। ७.६४.३ ॥
Slōka 4 / श्लोक ४
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। ७.६४.४ ॥
Slōka 5 / श्लोक ५
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।
सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। ७.६४.५ ॥
Slōka 6 / श्लोक ६
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।
सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। ७.६४.६ ॥
Slōka 7 / श्लोक ७
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। ७.६४.७ ॥
Slōka 8 / श्लोक ८
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ७.६४.८ ॥
Slōka 9 / श्लोक ९
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ ।
दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। ७.६४.९ ॥
Slōka 10 / श्लोक १०
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते ।
हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। ७.६४.१० ॥
Slōka 11 / श्लोक ११
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः ।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। ७.६४.११ ॥
Slōka 12 / श्लोक १२
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। ७.६४.१२ ॥
Slōka 13 / श्लोक १३
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।
सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। ७.६४.१३ ॥
Slōka 14 / श्लोक १४
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। ७.६४.१४ ॥
Slōka 15 / श्लोक १५
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। ७.६४.१५ ॥
Slōka 16 / श्लोक १६
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च ।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। ७.६४.१६ ॥
Slōka 17 / श्लोक १७
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। ७.६४.१७ ॥
Slōka 18 / श्लोक १८
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।
उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। ७.६४.१८ ।।