Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 65 / सर्गः ६५

Slōka 1 / श्लोक १

तप्यमानम् तथा रामम् सीता हरण कर्शितम् ।
लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥३-६५-१॥

Slōka 2 / श्लोक २

वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पुनः पुनः ।
दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥३-६५-२॥

Slōka 3 / श्लोक ३

अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः ।
अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३-६५-३॥

Slōka 4 / श्लोक ४

पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः ।
न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥३-६५-४॥

Slōka 5 / श्लोक ५

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा ।
एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥३-६५-५॥

Slōka 6 / श्लोक ६

एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि ।
न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥३-६५-६॥

Slōka 7 / श्लोक ७

केन वा कस्य वा हेतोः स आयुधः स परिच्छदः ।
खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥३-६५-७॥

Slōka 8 / श्लोक ८

देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज ।
एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥३-६५-८॥

Slōka 9 / श्लोक ९

न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् ।
न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥३-६५-९॥

Slōka 10 / श्लोक १०

युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः ।
सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥३-६५-१०॥

Slōka 11 / श्लोक ११

को नु दार प्रणाशम् ते साधु मन्येत राघव ।
सरितः सागराः शैला देव गन्धर्व दानवाः ॥३-६५-११॥

Slōka 12 / श्लोक १२

न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः ।
येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥३-६५-१२॥

Slōka 13 / श्लोक १३

मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः ।
समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥३-६५-१३॥

Slōka 14 / श्लोक १४

गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा ।
देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥३-६५-१४॥

Slōka 15 / श्लोक १५

यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् ।
न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः ।कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥३-६५-१५॥

Slōka 16 / श्लोक १६

शीलेन साम्ना विनयेन सीताम्नयेन न प्राप्स्यसि चेत् नरेन्द्र ।
ततः समुत्सादय हेम पुंखैःमहेन्द्र वज्र प्रतिमैः शर ओघैः ॥३-६५-१६॥