Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 20 / सर्गः २०

Slōka 1 / श्लोक १

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।
आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। ७.२०.१ ॥

Slōka 2 / श्लोक २

तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।
अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। ७.२०.२ ॥

Slōka 3 / श्लोक ३

नारदस्तु महातेजा देवर्षिरमितप्रभः ।
अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। ७.२०.३ ॥

Slōka 4 / श्लोक ४

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।
प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। ७.२०.४ ॥

Slōka 5 / श्लोक ५

विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।
त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। ७.२०.५ ॥

Slōka 6 / श्लोक ६

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।
श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। ७.२०.६ ॥

Slōka 7 / श्लोक ७

किमयं वध्यते तात त्वया ऽवध्येन दैवतैः ।
हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.७ ।।्तम ।देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। ७.२०.८ ॥

Slōka 8 / श्लोक ८

नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।
हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। ७.२०.९ ॥

Slōka 9 / श्लोक ९

तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।
मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। ७.२०.१० ॥

Slōka 10 / श्लोक १०

क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः ।
विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। ७.२०.११ ॥

Slōka 11 / श्लोक ११

पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।
मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। ७.२०.१२ ॥

Slōka 12 / श्लोक १२

क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।
रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। ७.२०.१३ ॥

Slōka 13 / श्लोक १३

मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।
मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। ७.२०.१४ ॥

Slōka 14 / श्लोक १४

अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।
जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। ७.२०.१५ ॥

Slōka 15 / श्लोक १५

अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।
तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। ७.२०.१६ ॥

Slōka 16 / श्लोक १६

तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।
एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ।अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। ७.२०.१७ ॥

Slōka 17 / श्लोक १७

महर्षे देवगन्धर्वविहार समरप्रिय ।
अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। ७.२०.१८ ॥

Slōka 18 / श्लोक १८

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।
समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। ७.२०.१९ ॥

Slōka 19 / श्लोक १९

अथाब्रवीदृशग्रीवं नारदो भगवानृषिः ।
क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। ७.२०.२० ॥

Slōka 20 / श्लोक २०

अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। ७.२०.२१ ॥

Slōka 21 / श्लोक २१

स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।
उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। ७.२०.२२ ॥

Slōka 22 / श्लोक २२

तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ।
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। ७.२०.२३ ॥

Slōka 23 / श्लोक २३

मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।
अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। ७.२०.२४ ॥

Slōka 24 / श्लोक २४

तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति ।
प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। ७.२०.२५ ॥

Slōka 25 / श्लोक २५

एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।
प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। ७.२०.२६ ॥

Slōka 26 / श्लोक २६

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। ७.२०.२७ ॥

Slōka 27 / श्लोक २७

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।
क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। ७.२०.२८ ॥

Slōka 28 / श्लोक २८

स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ।
लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। ७.२०.२९ ॥

Slōka 29 / श्लोक २९

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।
तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। ७.२०.३० ॥

Slōka 30 / श्लोक ३०

यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।
त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। ७.२०.३१ ॥

Slōka 31 / श्लोक ३१

अपरं किन्तु कृत्वायं विधानं संविधास्यति ।
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। ७.२०.३२ ॥

Slōka 32 / श्लोक ३२

विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।
। ७.२०.३३ ।।