Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 110 / सर्गः ११०

Slōka 1 / श्लोक १

अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। ७.११०.१ ॥

Slōka 2 / श्लोक २

तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।
आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। ७.११०.२ ॥

Slōka 3 / श्लोक ३

अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। ७.११०.३ ॥

Slōka 4 / श्लोक ४

आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।
विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। ७.११०.४ ॥

Slōka 5 / श्लोक ५

दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।
स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। ७.११०.५ ॥

Slōka 6 / श्लोक ६

पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।
पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। ७.११०.६ ॥

Slōka 7 / श्लोक ७

तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। ७.११०.७ ॥

Slōka 8 / श्लोक ८

ततः पितामहो वाणीमन्तरिक्षादभाषत ।
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। ७.११०.८ ॥

Slōka 9 / श्लोक ९

भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।
यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ।। ७.११०.९ ॥

Slōka 10 / श्लोक १०

त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।
ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ।। ७.११०.१० ॥

Slōka 11 / श्लोक ११

यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।
। ७.११०.११ ।।

Slōka 12 / श्लोक १२

ां विशालाक्षीं तव पूर्वपरिग्रहाम् ।
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः सशरीरः सहानुजः ।। ७.११०.१२ ॥

Slōka 13 / श्लोक १३

ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। ७.११०.१३ ॥

Slōka 14 / श्लोक १४

ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।
सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। ७.११०.१४ ॥

Slōka 15 / श्लोक १५

सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् ।
साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। ७.११०.१५ ॥

Slōka 16 / श्लोक १६

अथ विष्णुर्महातेजाः पितामहमुवाच ह ।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। ७.११०.१६ ॥

Slōka 17 / श्लोक १७

इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। ७.११०.१७ ॥

Slōka 18 / श्लोक १८

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। ७.११०.१८ ॥

Slōka 19 / श्लोक १९

यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।
प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।। ७.११०.१९ ॥

Slōka 20 / श्लोक २०

सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।
। ७.११०.२० ॥

Slōka 21 / श्लोक २१

वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।
येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। ७.११०.२१ ॥

Slōka 22 / श्लोक २२

तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।
पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। ७.११०.२२ ॥

Slōka 23 / श्लोक २३

तथोक्तवति देवेशे गोप्रतारमुपागताः ।
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। ७.११०.२३ ॥

Slōka 24 / श्लोक २४

अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।
मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। ७.११०.२४ ॥

Slōka 25 / श्लोक २५

तिर्यग्योनिगतानां च शतानि सरयूजलम् ।
सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ।। ७.११०.२५ ॥

Slōka 26 / श्लोक २६

गत्वा तु सरयूतोयं स्थावराणि चराणि च ।
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। ७.११०.२६ ॥

Slōka 27 / श्लोक २७

तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।
ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। ७.११०.२७ ॥

Slōka 28 / श्लोक २८

ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।
जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। ७.११०.२८ ।।