उत्तरकाण्डम्डम्
Chapter 75 / सर्गः ७५
Slōka 1 / श्लोक १
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ।। ७.७५.१ ॥
Slōka 2 / श्लोक २
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ।। ७.७५.२ ॥
Slōka 3 / श्लोक ३
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ।। ७.७५.३ ॥
Slōka 4 / श्लोक ४
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ।। ७.७५.४ ॥
Slōka 5 / श्लोक ५
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ।। ७.७५.५ ॥
Slōka 6 / श्लोक ६
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै ।। ७.७५.६ ॥
Slōka 7 / श्लोक ७
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ।। ७.७५.७ ॥
Slōka 8 / श्लोक ८
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ।। ७.७५.८ ॥
Slōka 9 / श्लोक ९
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ।। ७.७५.९ ॥
Slōka 10 / श्लोक १०
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ।। ७.७५.१० ॥
Slōka 11 / श्लोक ११
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ।। ७.७५.११ ॥
Slōka 12 / श्लोक १२
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ।। ७.७५.१२ ॥
Slōka 13 / श्लोक १३
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ।। ७.७५.१३ ॥
Slōka 14 / श्लोक १४
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ।। ७.७५.१४ ॥
Slōka 15 / श्लोक १५
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ।। ७.७५.१५ ॥
Slōka 16 / श्लोक १६
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ।। ७.७५.१६ ॥
Slōka 17 / श्लोक १७
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा ।
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।। ७.७५.१७ ॥
Slōka 18 / श्लोक १८
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ।। ७.७५.१८ ।।
Slōka 19 / श्लोक १९
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ।। ७.७५.१९ ।।