Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 2 / सर्गः २

Slōka 1 / श्लोक १

Slōka 1

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम लक्ष्मणौ ।
वर आयुध धरौ वीरौ सुग्रीवः श्ङ्कितोऽभवत् ॥४-२-१॥

Slōka 2 / श्लोक २

Slōka 2

उद्विग्न हृदयः सर्वा दिशः समवलोकयन् ।
न व्यतिष्ठत कस्मिन् चित् देशे वानर पुङ्गवः ॥४-२-२॥

Slōka 3 / श्लोक ३

Slōka 3

नैव चक्रे मनः स्थातुम् वीक्षमाणो महाबलौ ।
कपेः परम भीतस्य चित्तम् व्यवससाद ह ॥४-२-३॥

Slōka 4 / श्लोक ४

Slōka 4

चिन्तयित्वा स धर्मात्मा विमृश्य गुरु लाघवम् ।
सुग्रीवः परम उद्विग्नः सर्वैः तैः वानरैः सह ॥४-२-४॥

Slōka 5 / श्लोक ५

Slōka 5

ततः स सचिवेभ्यः तु सुग्रीवः प्लवगाधिपः ।
शशंस परम उद्विग्नः पश्यन् तौ राम लक्ष्मणौ ॥४-२-५॥

Slōka 6 / श्लोक ६

Slōka 6

एतौ वनम् इदम् दुर्गम् वालि प्रणिहितौ ध्रुवम् ।
छद्मना चीर वसनौ प्रचरन्तौ इह आगतौ ॥४-२-६॥

Slōka 7 / श्लोक ७

Slōka 7

ततः सुग्रीव सचिवा दृष्ट्वा परम धन्विनौ ।
जग्मुः गिरि तटात् तस्माद् अन्यत् शिखरम् उत्तमम् ॥४-२-७॥

Slōka 8 / श्लोक ८

Slōka 8

ते क्षिप्रम् अभिगम्य अथ यूथपा यूथपर्षभम् ।
हरयो वानर श्रेष्ठम् परिवार्य उपतस्थिरे ॥४-२-८॥

Slōka 9 / श्लोक ९

Slōka 9

एवम् एक आयन गताः प्लवमाना गिरेः गिरिम् ।
प्रकंपयन्तो वेगेन गिरीणाम् शिखराणि च ॥४-२-९॥

Slōka 10 / श्लोक १०

Slōka 10

ततः शाखा मृगाः सर्वे प्लवमाना महाबलाः ।
बभंजुः च नगान् तत्र पुष्पितान् दुर्गम् आश्रितान् ॥४-२-१०॥

Slōka 11 / श्लोक ११

Slōka 11

आप्लवन्तो हरिवराः सर्वतः तम् महागिरिम् ।
मृग मार्जार शार्दूलान् त्रासयन्तो ययुः तदा ॥४-२-११॥

Slōka 12 / श्लोक १२

Slōka 12

ततः सुग्रीव सचिवाः पर्वतेन्द्रे समाहिताः ।
संगम्य कपि मुख्येन सर्वे प्रांजलयः स्थिताः ॥४-२-१२॥

Slōka 13 / श्लोक १३

Slōka 13

ततः तु भय संत्रस्तम् वालि किल्बिष शन्कितम् ।
उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य कोविदः ॥४-२-१३॥

Slōka 14 / श्लोक १४

Slōka 14

संभ्रमः त्यजताम् एष सर्वैः वालि कृते महान् ।
मलयोऽयम् गिरिवरो भयम् न इह अस्ति वालिनः ॥४-२-१४॥

Slōka 15 / श्लोक १५

Slōka 15

यस्मात् उद्विग्न चेताः त्वम् विद्रुतो हरिपुंगव ।
तम् क्रूर दर्शनम् क्रूरम् न इह पश्यामि वालिनम् ॥४-२-१५॥

Slōka 16 / श्लोक १६

Slōka 16

यस्मात् तव भयम् सौम्य पूर्वजात् पाप कर्मणः ।
स न इह वाली दुष्टात्मा न ते पश्यामि अहम् भयम् ॥४-२-१६॥

Slōka 17 / श्लोक १७

Slōka 17

अहो शाखा मृगत्वम् ते व्यक्तम् एव प्लवंगम ।
लघु चित्ततया आत्मानम् न स्थापयसि यो मतौ ॥४-२-१७॥

Slōka 18 / श्लोक १८

Slōka 18

बुद्धि विज्ञान संपन्न इङ्गितैः सर्वम् आचर ।
न हि अबुद्धिम् गतो राजा सर्व भूतानि शास्ति हि ॥४-२-१८॥

Slōka 19 / श्लोक १९

Slōka 19

सुग्रीवः तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः ।
ततः शुभतरम् वाक्यम् हनूमन्तम् उवाच ह ॥४-२-१९॥

Slōka 20 / श्लोक २०

Slōka 20

दीर्घ बाहू विशालाक्षौ शर चाप असि धारिणौ ।
कस्य न स्यात् भयम् दृष्ट्वा हि एतौ सुर सुत उपमौ ॥४-२-२०॥

Slōka 21 / श्लोक २१

Slōka 21

वालि प्रणिहितौ एव शन्के अहम् पुरुषोत्तमौ ।
राजानो बहु मित्राः च विश्वासो न अत्र हि क्षमः ॥४-२-२१॥

Slōka 22 / श्लोक २२

Slōka 22

अरयः च मनुष्येण विज्ञेयाः छद्म चारिणः ।
विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति अपि ॥४-२-२२॥

Slōka 23 / श्लोक २३

Slōka 23

कृत्येषु वाली मेधावी राजानो बहु दर्शनः ।
भवन्ति पर हन्तारः ते ज्ञेयाः प्राकृतैः नरैः ॥४-२-२३॥

Slōka 24 / श्लोक २४

Slōka 24

तौ त्वया प्राकृतेन एव गत्वा ज्ञेयौ प्लवंगम ।
इङ्गितानाम् प्रकारैः च रूपव्या भाषणेन च ॥४-२-२४॥

Slōka 25 / श्लोक २५

Slōka 25

लक्षयस्व तयोः भावम् प्रहृष्ट मनसौ यदि ।
विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनः पुनः ॥४-२-२५॥

Slōka 26 / श्लोक २६

Slōka 26

मम एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि पुंगव ।
प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुर् धरौ ॥४-२-२६॥

Slōka 27 / श्लोक २७

Slōka 27

शुद्ध आत्मानौ यदि एतौ जानीहि त्वम् प्लवंगम ।
व्याभाषितैः वा रूपैः वा विज्ञेया दुष्टता अनयोः ॥४-२-२७॥

Slōka 28 / श्लोक २८

Slōka 28

इति एवम् कपिराजेन संदिष्टो मारुतात्मजः ।
चकार गमने बुद्धिम् यत्र तौ राम लक्ष्मणौ ॥४-२-२८॥

Slōka 29 / श्लोक २९

Slōka 29

तथा इति संपूज्य वचः तु तस्य कपेः सुभीतस्य दुरासदस्य ।
महानुभावो हनुमान् ययौ तदा स यत्र रामो अतिबली स लक्ष्मणः ॥४-२-२९॥