अयोध्याकाण्डम्
Chapter 6 / सर्गः ६
Slōka 1 / श्लोक १
गते पुरोहिते रामः स्नातो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥
Slōka 2 / श्लोक २
प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा ।
महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥
Slōka 3 / श्लोक ३
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥
Slōka 4 / श्लोक ४
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥
Slōka 5 / श्लोक ५
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥
Slōka 6 / श्लोक ६
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।
पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥
Slōka 7 / श्लोक ७
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।
विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥
Slōka 8 / श्लोक ८
तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा ।
अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥
Slōka 9 / श्लोक ९
कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥
Slōka 10 / श्लोक १०
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥
Slōka 11 / श्लोक ११
सिताभ्रशिखराभेषु देवतायतनेषु च ।
चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥
Slōka 12 / श्लोक १२
नानापण्यसमृद्धेषु वणिजामापणेषु च ।
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥
Slōka 13 / श्लोक १३
सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च ।
ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥
Slōka 14 / श्लोक १४
नटनर्तकसंघानां गायकानां च गायताम् ।
मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥
Slōka 15 / श्लोक १५
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।
रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥
Slōka 16 / श्लोक १६
बाला अपि क्रीडमाना गृ हद्वारेषु संघशः ।
रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥
Slōka 17 / श्लोक १७
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥
Slōka 18 / श्लोक १८
प्रकाशकरणार्धं च निशागमनशञ्कया ।
दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥
Slōka 19 / श्लोक १९
अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः ।
आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥
Slōka 20 / श्लोक २०
समेत्य संघशः सर्वे चत्वरेषु सभासु च ।
कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥
Slōka 21 / श्लोक २१
अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।
ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥
Slōka 22 / श्लोक २२
सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः ।
चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥
Slōka 23 / श्लोक २३
आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥
Slōka 24 / श्लोक २४
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥
Slōka 25 / श्लोक २५
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।
दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥
Slōka 26 / श्लोक २६
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥
Slōka 27 / श्लोक २७
जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥
Slōka 28 / श्लोक २८
ततस्तदिन्द्रक्षयसन्निभं पुरं ।
दिदृक्षुभिर्जानपदै रुपागतैः ।समन्ततः सस्वनमाकुलं बभौ ।समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥