Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 77 / सर्गः ७७

Slōka 1 / श्लोक १

पुरा त्रेतायुगे राम बभूव बहुविस्तरम् ।
समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ।। ७.७७.१ ॥

Slōka 2 / श्लोक २

तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् ।
अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। ७.७७.२ ॥

Slōka 3 / श्लोक ३

तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ।। ७.७७.३ ॥

Slōka 4 / श्लोक ४

तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।। ७.७७.४ ॥

Slōka 5 / श्लोक ५

पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ।। ७.७७.५ ॥

Slōka 6 / श्लोक ६

अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।
समीपे तस्य सरसो महदद्भुतमाश्रमम् ।। ७.७७.६ ॥

Slōka 7 / श्लोक ७

पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ।। ७.७७.७ ॥

Slōka 8 / श्लोक ८

प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।
अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ।। ७.७७.८ ॥

Slōka 9 / श्लोक ९

पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।। ७.७७.९ ॥

Slōka 10 / श्लोक १०

तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव ।
उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ।। ७.७७.१० ॥

Slōka 11 / श्लोक ११

अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।
विमानं परमोदारं हंसयुक्तं मनोजवम् ।। ७.७७.११ ॥

Slōka 12 / श्लोक १२

अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन ।
उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। ७.७७.१२ ॥

Slōka 13 / श्लोक १३

गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः ।
क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ।। ७.७७.१३ ॥

Slōka 14 / श्लोक १४

अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।
दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ।। ७.७७.१४ ॥

Slōka 15 / श्लोक १५

ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।
पश्यतो मे तदा राम विमानादवरुह्य च ।तं शवं भक्षयामास स स्वर्गी रघुनन्दन ।। ७.७७.१५ ॥

Slōka 16 / श्लोक १६

तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् ।
अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ।। ७.७७.१६ ॥

Slōka 17 / श्लोक १७

उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।
आरोढुमुपचक्राम विमानवरमुत्तमम् ।। ७.७७.१७ ॥

Slōka 18 / श्लोक १८

तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै ।
अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ।। ७.७७.१८ ॥

Slōka 19 / श्लोक १९

को भवान्देवसङ्काश आहारश्च विगर्हितः ।
त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ।। ७.७७.१९ ॥

Slōka 20 / श्लोक २०

कस्य स्यादीदृशो भाव आहारो देवसम्मतः ।
आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ।। ७.७७.२० ॥

Slōka 21 / श्लोक २१

नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ।
। ७.७७.२१ ॥

Slōka 22 / श्लोक २२

इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ।
श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ।। ७.७७.२२ ।।