अयोध्याकाण्डम्
Chapter 66 / सर्गः ६६
Slōka 1 / श्लोक १
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
Slōka 2 / श्लोक २
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
Slōka 3 / श्लोक ३
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।
त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
Slōka 4 / श्लोक ४
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
Slōka 5 / श्लोक ५
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
Slōka 6 / श्लोक ६
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
Slōka 7 / श्लोक ७
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
Slōka 8 / श्लोक ८
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
Slōka 9 / श्लोक ९
विदेह राजस्य सुता तहा सीता तपस्विनी ।
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
Slōka 10 / श्लोक १०
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।
निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥
Slōka 11 / श्लोक ११
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
Slōka 12 / श्लोक १२
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
Slōka 13 / श्लोक १३
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
Slōka 14 / श्लोक १४
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
Slōka 15 / श्लोक १५
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
Slōka 16 / श्लोक १६
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।
हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥
Slōka 17 / श्लोक १७
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।
रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
Slōka 18 / श्लोक १८
हा महाराज रामेण सततम् प्रियवादिना ।
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
Slōka 19 / श्लोक १९
कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
Slōka 20 / श्लोक २०
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
Slōka 21 / श्लोक २१
त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
Slōka 22 / श्लोक २२
यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
Slōka 23 / श्लोक २३
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
Slōka 24 / श्लोक २४
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
Slōka 25 / श्लोक २५
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
Slōka 26 / श्लोक २६
गत प्रभा द्यौर् इव भास्करम् विना ।
व्यपेत नक्षत्र गणा इव शर्वरी ।निवृत्तचारः सहसा गतो रविः ।प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
Slōka 27 / श्लोक २७
ऋते तु पुत्राद्दहनम् महीपते ।
र्नरोचयन्ते सुहृदः समागताः ।इतीव तस्मिन् शयने न्यवेशय ।न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
Slōka 28 / श्लोक २८
गतप्रभा द्यौरिव भास्करम् विना ।
व्यपेतनक्षत्रगणेव शर्वरी ।पुरी बभासे रहिता मह आत्मना ।न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
Slōka 29 / श्लोक २९
नराः च नार्यः च समेत्य सम्घशो ।
विगर्हमाणा भरतस्य मातरम् ।तदा नगर्याम् नर देव सम्क्षये ।बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥