सुन्दरकाण्डम्
Chapter 20 / सर्गः २०
Slōka 1 / श्लोक १
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। ५.२०.१।।।।
Slōka 2 / श्लोक २
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। ५.२०.२।।।।
Slōka 3 / श्लोक ३
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।
द्रवतो मार्गमासाद्य हयानिव सुसारथिः ।। ५.२०.३।।।।
Slōka 4 / श्लोक ४
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ।। ५.२०.४।।।।
Slōka 5 / श्लोक ५
एतस्मात्कारणान्न तां घतयामि वरानने ।
वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ।। ५.२०.५।।।।
Slōka 6 / श्लोक ६
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।
तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ।। ५.२०.६।।।।
Slōka 7 / श्लोक ७
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।
क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ।। ५.२०.७।।।।
Slōka 8 / श्लोक ८
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।
ततः शयनमारोह मम त्वं वरवर्णिनि ।। ५.२०.८।।।।
Slōka 9 / श्लोक ९
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
मम त्वां प्रातराशार्थमारभन्ते महानसे ।। ५.२०.९।।।।
Slōka 10 / श्लोक १०
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।
देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ।। ५.२०.१०।।।।
Slōka 11 / श्लोक ११
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ।
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ।। ५.२०.११।।।।
Slōka 12 / श्लोक १२
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।
उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ।। ५.२०.१२।।।।
Slōka 13 / श्लोक १३
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः ।
निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ।। ५.२०.१३।।।।
Slōka 14 / श्लोक १४
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ।। ५.२०.१४।।।।
Slōka 15 / श्लोक १५
राक्षसाधम रामस्य भार्याममिततेजसः ।
उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ।। ५.२०.१५।।।।
Slōka 16 / श्लोक १६
यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने ।
तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ।। ५.२०.१६।।।।
Slōka 17 / श्लोक १७
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।
चक्षुषो विषयं तस्य न तावदुपगच्छसि ।। ५.२०.१७।।।।
Slōka 18 / श्लोक १८
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।
क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ।। ५.२०.१८।।।।
Slōka 19 / श्लोक १९
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।
कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ।। ५.२०.१९।।।।
Slōka 20 / श्लोक २०
असन्देशात्तु रामस्य तपसश्चानुपालनात् ।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ।। ५.२०.२०।।।।
Slōka 21 / श्लोक २१
नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।
विधिस्तव वधार्थाय विहितो नात्र संशयः ।। ५.२०.२१।।।।
Slōka 22 / श्लोक २२
शूरेण धनदभ्राता बलैः समुदितेन च ।
अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् ।। ५.२०.२२।।।।
Slōka 23 / श्लोक २३
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ।। ५.२०.२३।।।।
Slōka 24 / श्लोक २४
नीलजीमूतसङ्काशो महाभुजशिरोधरः ।
सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ।। ५.२०.२४।।।।
Slōka 25 / श्लोक २५
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ।
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ।। ५.२०.२५।।।।
Slōka 26 / श्लोक २६
श्रोणीसूत्रेण महता मेककेन सुसंवृतः ।
अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः ।। ५.२०.२६।।।।
Slōka 27 / श्लोक २७
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ।। ५.२०.२७।।।।
Slōka 28 / श्लोक २८
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।
उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ।। ५.२०.२८।।।।
Slōka 29 / श्लोक २९
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते ।
नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ।। ५.२०.२९।।।।
Slōka 30 / श्लोक ३०
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।
सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ।। ५.२०.३०।।।।
Slōka 31 / श्लोक ३१
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।
गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ।। ५.२०.३१।।।।
Slōka 32 / श्लोक ३२
हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ।
एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ।। ५.२०.३२।।।।
Slōka 33 / श्लोक ३३
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।
अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।। ५.२०.३३।।।।
Slōka 34 / श्लोक ३४
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।। ५.२०.३४।।।।
Slōka 35 / श्लोक ३५
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।
आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ।। ५.२०.३५।।।।
Slōka 36 / श्लोक ३६
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।
काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।। ५.२०.३६।।।।
Slōka 37 / श्लोक ३७
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।। ५.२०.३७।।।।
Slōka 38 / श्लोक ३८
मया क्रीड महाराजसीतया किं तवानया ।
अकामां कामयानस्य शरीरमुपतप्यते ।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ।। ५.२०.३८।।।।
Slōka 39 / श्लोक ३९
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।
ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।। ५.२०.३९।।।।
Slōka 40 / श्लोक ४०
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ।
परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ।। ५.२०.४०।।।।
Slōka 41 / श्लोक ४१
स मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणः ।
।।
Slōka 42 / श्लोक ४२
विहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम् ।
। ५.२०.४१।।