सुन्दरकाण्डम्
Chapter 65 / सर्गः ६५
Slōka 1 / श्लोक १
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।। ५.६५.१ ।।।।
Slōka 2 / श्लोक २
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।। ५.६५.२ ।।।।
Slōka 3 / श्लोक ३
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ।एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।। ५.६५.३ ।।।।
Slōka 4 / श्लोक ४
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।
। ५.६५.४ ।।।।
Slōka 5 / श्लोक ५
क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।। ५.६५.५ ।।।।
Slōka 6 / श्लोक ६
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।। ५.६५.६ ।।।।
Slōka 7 / श्लोक ७
श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।। ५.६५.७ ।।।।
Slōka 8 / श्लोक ८
समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।। ५.६५.८ ।।।।
Slōka 9 / श्लोक ९
तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।। ५.६५.९ ।।।।।।
Slōka 10 / श्लोक १०
तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।
संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।। ५.६५.१० ।।।।
Slōka 11 / श्लोक ११
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।। ५.६५.११ ।।।।
Slōka 12 / श्लोक १२
दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ।
। ५.६५.१२ ।।।।
Slōka 13 / श्लोक १३
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ।। ५.६५.१३ ।।।।
Slōka 14 / श्लोक १४
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ।। ५.६५.१४ ।।।।
Slōka 15 / श्लोक १५
इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।
सा मया नरशार्दूल विश्वासमुपपादिता ।। ५.६५.१५ ।।।।
Slōka 16 / श्लोक १६
ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.६५.१६ ।।।।
Slōka 17 / श्लोक १७
नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।
। ५.६५.१७ ।।।।
Slōka 18 / श्लोक १८
एवं मया महाभागा दृष्टा जनकनन्दिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।। ५.६५.१८ ।।।।
Slōka 19 / श्लोक १९
अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।। ५.६५.१९ ।।।।
Slōka 20 / श्लोक २०
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद् दृष्टमिति मामाह जानकी ।। ५.६५.२० ।।।।
Slōka 21 / श्लोक २१
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ।। ५.६५.२१ ।।।।
Slōka 22 / श्लोक २२
एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।। ५.६५.२२ ।।।।
Slōka 23 / श्लोक २३
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।। ५.६५.२३ ।।।।
Slōka 24 / श्लोक २४
एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।
जीवितं धारयिष्यामि मासं दशरथात्मज ।ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ।। ५.६५.२४ ।।।।
Slōka 25 / श्लोक २५
इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।। ५.६५.२५ ।।।।
Slōka 26 / श्लोक २६
एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।
सर्वथा सागरजले सन्तारः प्रविधीयताम् ।। ५.६५.२६ ।।।।
Slōka 27 / श्लोक २७
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ।। ५.६५.२७ ।।