Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 86 / सर्गः ८६

Slōka 1 / श्लोक १

तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।
कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। ७.८६.१ ॥

Slōka 2 / श्लोक २

ततो हते महावीर्ये वृत्रे देवभयङ्करे ।
ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। ७.८६.२ ॥

Slōka 3 / श्लोक ३

सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः ।
कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। ७.८६.३ ॥

Slōka 4 / श्लोक ४

अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।
भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। ७.८६.४ ॥

Slōka 5 / श्लोक ५

निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा ।
सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। ७.८६.५ ॥

Slōka 6 / श्लोक ६

क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः ।
यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। ७.८६.६ ॥

Slōka 7 / श्लोक ७

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।
तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। ७.८६.७ ॥

Slōka 8 / श्लोक ८

ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।
तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। ७.८६.८ ॥

Slōka 9 / श्लोक ९

ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।
ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। ७.८६.९ ॥

Slōka 10 / श्लोक १०

ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। ७.८६.१० ॥

Slōka 11 / श्लोक ११

ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।
चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। ७.८६.११ ॥

Slōka 12 / श्लोक १२

देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।
सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। ७.८६.१२ ॥

Slōka 13 / श्लोक १३

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।
चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। ७.८६.१३ ॥

Slōka 14 / श्लोक १४

भूम्यामहं सर्वकालमेकेनांशेन सर्वदा ।
वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। ७.८६.१४ ॥

Slōka 15 / श्लोक १५

यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।
त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। ७.८६.१५ ॥

Slōka 16 / श्लोक १६

हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। ७.८६.१६ ॥

Slōka 17 / श्लोक १७

प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।
तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। ७.८६.१७ ॥

Slōka 18 / श्लोक १८

ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे ।
विज्वरः स च पूतात्मा वासवः समपद्यत ।। ७.८६.१८ ॥

Slōka 19 / श्लोक १९

प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते ।
यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। ७.८६.१९ ॥

Slōka 20 / श्लोक २०

ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन ।
यजस्व सुमहाभाग हयमेधेन पार्थिव ।। ७.८६.२० ॥

Slōka 21 / श्लोक २१

इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।
परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। ७.८६.२१ ।।