किष्किन्धाकाण्डम्डम्
Chapter 56 / सर्गः ५६
Slōka 1 / श्लोक १
Slōka 1
उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले ।
हरयो गृध्र राजः च तम् देशम् उपचक्रमे ॥४-५६-१॥
Slōka 2 / श्लोक २
Slōka 2
सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः ।
भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः ॥४-५६-२॥
Slōka 3 / श्लोक ३
Slōka 3
कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।
उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् ॥४-५६-३॥
Slōka 4 / श्लोक ४
Slōka 4
विधिः किल नरम् लोके विधानेन अनुवर्तते ।
यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः ॥४-५६-४॥
Slōka 5 / श्लोक ५
Slōka 5
परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् ।
उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥४-५६-५॥
Slōka 6 / श्लोक ६
Slōka 6
तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः ।
अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत् ॥४-५६-६॥
Slōka 7 / श्लोक ७
Slōka 7
पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः ।
इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये ॥४-५६-७॥
Slōka 8 / श्लोक ८
Slōka 8
रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् ।
हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता ॥४-५६-८॥
Slōka 9 / श्लोक ९
Slōka 9
वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा ।
गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः ॥४-५६-९॥
Slōka 10 / श्लोक १०
Slōka 10
तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि ।
प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥४-५६-१०॥
Slōka 11 / श्लोक ११
Slōka 11
अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः ।
ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना ॥४-५६-११॥
Slōka 12 / श्लोक १२
Slōka 12
प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा ।
राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः ॥४-५६-१२॥
Slōka 13 / श्लोक १३
Slōka 13
कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।
स सुखी गृध्र राजः तु रावणेन हतो रणे ।मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम् ॥४-५६-१३॥
Slōka 14 / श्लोक १४
Slōka 14
जटायुषो विनाशेन राज्ञो दशरथस्य च ।
हरणेन च वैदेह्याः संशयम् हरयो गताः ॥४-५६-१४॥
Slōka 15 / श्लोक १५
Slōka 15
राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया ।
राघवस्य च बाणेन वालिनः च तथा वधः ॥४-५६-१५॥
Slōka 16 / श्लोक १६
Slōka 16
राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् ।
कैकेय्या वर दानेन इदम् च विकृतम् कृतम् ॥४-५६-१६॥
Slōka 17 / श्लोक १७
Slōka 17
तत् असुखम् अनुकीर्तितम् वचोभुवि पतितान् च निरीक्ष्य वानरान् ।
भृश चकित मतिः महामतिःकृपणम् उदाहृतवान् स गृध्रराजः ॥४-५६-१७॥
Slōka 18 / श्लोक १८
Slōka 18
तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् ।
अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः ॥४-५६-१८॥
Slōka 19 / श्लोक १९
Slōka 19
को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे ।
जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः ॥४-५६-१९॥
Slōka 20 / श्लोक २०
Slōka 20
कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः ।
नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम् ॥४-५६-२०॥
Slōka 21 / श्लोक २१
Slōka 21
इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् ।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४-५६-२१॥
Slōka 22 / श्लोक २२
Slōka 22
अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् ।
तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः ॥४-५६-२२॥
Slōka 23 / श्लोक २३
Slōka 23
भ्रातुः जटायुषः तस्य जनस्थान निवासिनः ।
तस्य एव च मम भ्रातुः सखा दशरथः कथम् ॥४-५६-२३॥
Slōka 24 / श्लोक २४
Slōka 24
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः ।
सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् ।इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः ॥४-५६-२४॥