उत्तरकाण्डम्डम्
Chapter 84 / सर्गः ८४
Slōka 1 / श्लोक १
तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। ७.८४.१ ॥
Slōka 2 / श्लोक २
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। ७.८४.२ ॥
Slōka 3 / श्लोक ३
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। ७.८४.३ ॥
Slōka 4 / श्लोक ४
पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। ७.८४.४ ॥
Slōka 5 / श्लोक ५
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। ७.८४.५ ॥
Slōka 6 / श्लोक ६
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। ७.८४.६ ॥
Slōka 7 / श्लोक ७
तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।
रसवन्ति प्रभूनानि मूलानि च फलानि च ।। ७.८४.७ ॥
Slōka 8 / श्लोक ८
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। ७.८४.८ ॥
Slōka 9 / श्लोक ९
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। ७.८४.९ ॥
Slōka 10 / श्लोक १०
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। ७.८४.१० ॥
Slōka 11 / श्लोक ११
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। ७.८४.११ ॥
Slōka 12 / श्लोक १२
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। ७.८४.१२ ॥
Slōka 13 / श्लोक १३
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। ७.८४.१३ ॥
Slōka 14 / श्लोक १४
तं चैनं परमोदारमुपेक्षसि महाबलम् ।
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। ७.८४.१४ ॥
Slōka 15 / श्लोक १५
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। ७.८४.१५ ॥
Slōka 16 / श्लोक १६
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। ७.८४.१६ ॥
Slōka 17 / श्लोक १७
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। ७.८४.१७ ॥
Slōka 18 / श्लोक १८
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ।। ७.८४.१८ ।।