उत्तरकाण्डम्डम्
Chapter 59 / सर्गः ५९
Slōka 1 / श्लोक १
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः ।
जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।। ७.५९.१ ॥
Slōka 2 / श्लोक २
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।
जरां परमिकां पुत्र भोगै रंस्ये महायशः ।। ७.५९.२ ॥
Slōka 3 / श्लोक ३
न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ ।
अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ।। ७.५९.३ ॥
Slōka 4 / श्लोक ४
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।
पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ।। ७.५९.४ ॥
Slōka 5 / श्लोक ५
बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।
प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ।। ७.५९.५ ।।
Slōka 6 / श्लोक ६
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।
इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ।। ७.५९.६ ॥
Slōka 7 / श्लोक ७
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।
धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ।। ७.५९.७ ॥
Slōka 8 / श्लोक ८
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।
प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।। ७.५९.८ ।।
Slōka 9 / श्लोक ९
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।
बहुवर्षसहस्राणि पालयामास मेदिनीम् ।। ७.५९.९ ॥
Slōka 10 / श्लोक १०
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।
आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।। ७.५९.१० ॥
Slōka 11 / श्लोक ११
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा ।
तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। ७.५९.११ ॥
Slōka 12 / श्लोक १२
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।
त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। ७.५९.१२ ॥
Slōka 13 / श्लोक १३
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।
देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।। ७.५९.१३ ॥
Slōka 14 / श्लोक १४
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।
प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।। ७.५९.१४ ॥
Slōka 15 / श्लोक १५
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।
राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।। ७.५९.१५ ॥
Slōka 16 / श्लोक १६
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।
वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।। ७.५९.१६ ॥
Slōka 17 / श्लोक १७
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।
अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।। ७.५९.१७ ॥
Slōka 18 / श्लोक १८
ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।
त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।। ७.५९.१८ ॥
Slōka 19 / श्लोक १९
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।
प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।। ७.५९.१९ ॥
Slōka 20 / श्लोक २०
यदुस्तु जनयामास यातुधानान्सहस्रशः ।
पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।। ७.५९.२० ॥
Slōka 21 / श्लोक २१
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।
धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।। ७.५९.२१ ॥
Slōka 22 / श्लोक २२
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।
अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।। ७.५९.२२ ॥
Slōka 23 / श्लोक २३
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।
अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। ७.५९.२३ ।।