Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 67 / सर्गः ६७

Slōka 1 / श्लोक १

Slōka 1

तम् दृष्ट्वा जृंभमाणम् ते क्रमितुम् शत योजनम् ।
वेगेन आपूर्यमाणम् च सहसा वानरोत्तमम् ॥४-६७-१॥

Slōka 2 / श्लोक २

Slōka 2

सहसा शोकम् उत्सृज्य प्रहर्षेण समन्विताः ।
विनेदुः तुष्टुवुः च अपि हनूमन्तम् महाबलम् ॥४-६७-२॥

Slōka 3 / श्लोक ३

Slōka 3

प्रहृष्टा विस्मिताः च अपि ते वीक्षन्ते समंततः ।
त्रिविक्रम कृत उत्साहम् नारायणम् इव प्रजाः ॥४-६७-३॥

Slōka 4 / श्लोक ४

Slōka 4

संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।
समाविद्ध्य च लांगूलम् हर्षात् बलम् उपेयिवान् ॥४-६७-४॥

Slōka 5 / श्लोक ५

Slōka 5

तस्य संस्तूयमानस्य सर्वैः वनर पुंगवैः ।
तेजसा आपूर्यमाणस्य रूपम् आसीत् अनुत्तमम् ॥४-६७-५॥

Slōka 6 / श्लोक ६

Slōka 6

यथा विजृंभते सिंहो विवृते गिरि गह्वरे ।
मारुतस्य औरसः पुत्रः तथा संप्रति जृंभते ॥४-६७-६॥

Slōka 7 / श्लोक ७

Slōka 7

अशोभत मुखम् तस्य जृंभमाणस्य धीमतः ।
अंबरीष उपमम् दीप्तम् विधूम इव पावकः ॥४-६७-७॥

Slōka 8 / श्लोक ८

Slōka 8

हरीणाम् उत्थितो मध्यात् संप्रहृष्ट तनू रुहः ।
अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् ॥४-६७-८॥

Slōka 9 / श्लोक ९

Slōka 9

अरुजन् पर्वत अग्राणि हुताशन सखो अनिलः ।
बलवान् अप्रमेयः च वायुः आकाश गोचरः ॥४-६७-९॥

Slōka 10 / श्लोक १०

Slōka 10

तस्य अहम् शीघ्र वेगस्य शीघ्र गस्य महात्मनः ।
मारुतस्य औरसः पुत्रः प्लवने च अस्मि तत् समः ॥४-६७-१०॥

Slōka 11 / श्लोक ११

Slōka 11

उत्सहेयम् हि विस्तीर्णम् आलिखंतम् इव अंबरम् ।
मेरुम् गिरिम् असंगेन परिगंतुम् सहस्रशः ॥४-६७-११॥

Slōka 12 / श्लोक १२

Slōka 12

बाहु वेग प्रणुन्नेन सागरेण अहम् उत्सहे ।
समाप्लावयितुम् लोकम् स पर्वत नदी ह्रदम् ॥४-६७-१२॥

Slōka 13 / श्लोक १३

Slōka 13

मम ऊरु जन्घा वेगेन भविष्यति समुत्थितः ।
समुत्थित महा ग्राहः समुद्रो वरुण आलयः ॥४-६७-१३॥

Slōka 14 / श्लोक १४

Slōka 14

पन्नग अशनम् आकाशे पतन्तम् पक्षि सेवितम् ।
वैनतेयम् अहम् शक्तः परिगंतुम् सहस्रशः ॥४-६७-१४॥

Slōka 15 / श्लोक १५

Slōka 15

उदयात् प्रस्थितम् वा अपि ज्वलंतम् रश्मि मालिनम् ।
अन् अस्तमितम् आदित्यम् अभिगंतुम् समुत्सहे ॥४-६७-१५॥

Slōka 16 / श्लोक १६

Slōka 16

ततो भूमिम् असंस्पृष्ट्वा पुनः आगन्तुम् उत्सहे ।
प्रवेगेन एव महता भीमेन प्लवगर्षभाः ॥४-६७-१६॥

Slōka 17 / श्लोक १७

Slōka 17

उत्सहेयम् अतिक्रांतुम् सर्वान् आकाश गोचरान् ।
सागरम् शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥४-६७-१७॥

Slōka 18 / श्लोक १८

Slōka 18

पर्वतान् चूर्णष्यामि प्लवमानः प्लवंगमाः ।
हरिष्यामि ऊरु वेगेन प्लवमानो महाअर्णवम् ॥४-६७-१८॥

Slōka 19 / श्लोक १९

Slōka 19

लतानाम् विविधाम् पुष्पम् पादपानाम् च सर्वशः ।
अनुयास्यति माम् अद्य प्लवमानम् विहायसा ॥४-६७-१९॥

Slōka 20 / श्लोक २०

Slōka 20

भविष्यति हि मे पन्थाः स्वातेः पन्था इव अंबरे ।
चरन्तम् घोरम् आकाशम् उत्पतिष्यन्तम् एव च ॥४-६७-२०॥

Slōka 21 / श्लोक २१

Slōka 21

द्रक्ष्यन्ति निपतन्तम् च सर्व भूतानि वानराः ।
महा मेरु प्रतीकाशम् माम् द्रक्ष्यध्वम् प्लवंगमाः ॥४-६७-२१॥

Slōka 22 / श्लोक २२

Slōka 22

दिवम् आवृत्य गच्छन्तम् ग्रसमानम् इव अंबरम् ।
विधमिष्यामि जीमूतान् कंपयिष्यामि पर्वतान् ।सागरम् शोषयिष्यामि प्लवमानः समाहितः ॥४-६७-२२॥

Slōka 23 / श्लोक २३

Slōka 23

वैनतेयस्य वा शक्तिः मम वा मारुतस्य वा ।
ऋते सुपर्ण राजानम् मारुतम् वा महाबलम् ।न तत् भूतम् प्रपश्यामि यत् माम् प्लुतम् अनुव्रजेत् ॥४-६७-२३॥

Slōka 24 / श्लोक २४

Slōka 24

निमेष अन्तर मात्रेण निरालंबनम् अंबरम् ।
सहसा निपतिष्यामि घनात् विद्युत् इव उत्थिता ॥४-६७-२४॥

Slōka 25 / श्लोक २५

Slōka 25

भविष्यति हि मे रूपम् प्लवमानस्य सागरम् ।
विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव ॥४-६७-२५॥

Slōka 26 / श्लोक २६

Slōka 26

बुद्ध्या च अहम् प्रपश्यामि मनः चेष्टा च मे तथा ।
अहम् द्रक्ष्यामि वैदेहीम् प्रमोदध्वम् प्लवंगमाः ॥४-६७-२६॥

Slōka 27 / श्लोक २७

Slōka 27

मारुतस्य समो वेगे गरुडस्य समो जवे ।
अयुतम् योजनानाम् तु गमिष्यामि इति मे मतिः ॥४-६७-२७॥

Slōka 28 / श्लोक २८

Slōka 28

वासवस्य स वज्रस्य ब्रह्मणो वा स्वयंभुवः ।
विक्रम्य सहसा हस्तात् अमृतम् तत् इह आनये ॥४-६७-२८॥

Slōka 29 / श्लोक २९

Slōka 29

लंकाम् वा अपि समुत्क्षिप्य गच्छेयम् इति मे मतिः ।
तम् एवम् वानर श्रेष्ठम् गर्जन्तम् अमित प्रभम् ॥४-६७-२९॥

Slōka 30 / श्लोक ३०

Slōka 30

प्रहृष्टा हरयः तत्र समुदैक्षन्त विस्मिताः ।
तत् च अस्य वचनम् श्रुत्वा ज्ञातीनाम् शोक नाशनम् ॥४-६७-३०॥

Slōka 31 / श्लोक ३१

Slōka 31

उवाच परिसंहृष्टो जांबवान् प्लवगेश्वरः ।
वीर केसरिणः पुत्र वेगवन् मारुत आत्मज ॥४-६७-३१॥

Slōka 32 / श्लोक ३२

Slōka 32

ज्ञातीनाम् विपुलः शोकः त्वया तात प्रणाशितः ।
तव कल्याण रुचयः कपि मुख्याः समागताः ॥४-६७-३२॥

Slōka 33 / श्लोक ३३

Slōka 33

मंगलम् कार्य सिद्धि अर्थम् करिष्यन्ति समाहिताः ।
ऋषीणाम् च प्रसादेन कपि वृद्ध मतेन च ॥४-६७-३३॥

Slōka 34 / श्लोक ३४

Slōka 34

गुरूणाम् च प्रसादेन प्लवस्व त्वम् महाअर्णवम् ।
स्थास्यामः च एक पादेन यावत् आगमनम् तव ॥४-६७-३४॥

Slōka 35 / श्लोक ३५

Slōka 35

त्वत् गतानि च सर्वेषाम् जीवितानि वन ओकसाम् ।
ततः च हरि शार्दूलः तान् उवाच वन ओकसः ॥४-६७-३५॥

Slōka 36 / श्लोक ३६

Slōka 36

को अपि लोके न मे वेगम् प्लवने धारयिष्यति ।
एतानि हि नगस्य अस्य शिला संकट शालिनः ॥४-६७-३६॥

Slōka 37 / श्लोक ३७

Slōka 37

शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ।
येषु वेगम् गमिष्यामि महेन्द्र शिखरेषु अहम् ॥४-६७-३७॥

Slōka 38 / श्लोक ३८

Slōka 38

नाना द्रुम विकीर्णेषु धातु निष्पन्द शोभिषु ।
एतानि मम वेगम् हि शिखराणि महान्ति च ॥४-६७-३८॥

Slōka 39 / श्लोक ३९

Slōka 39

प्लवतो धारयिष्यन्ति योजनानाम् इतः शतम् ।
ततः तु मारुत प्रख्यः स हरिः मारुत आत्मजः ।आरुरोह नग श्रेष्ठम् मह्न्द्रम् अरिंअर्दमः ॥४-६७-३९॥

Slōka 40 / श्लोक ४०

Slōka 40

वृतम् नाना विधैः पुष्पैः मृग सेवित शाद्वलम् ।
लता कुसुम संबाधम् नित्य पुष्प फल द्रुमम् ॥४-६७-४०॥

Slōka 41 / श्लोक ४१

Slōka 41

सिंह शार्दूल चरितम् मत्त मातंग सेवितम् ।
मत्त द्विज गण उद् धुष्टम् सलिल उत्पीड संकुलम् ॥४-६७-४१॥

Slōka 42 / श्लोक ४२

Slōka 42

महद्भिः उच्छ्रितम् शृन्गैः महेन्द्रम् स महाबलः ।
विचचार हरिश्रेष्ठो महेन्द्र साम विक्रमः ॥४-६७-४२॥

Slōka 43 / श्लोक ४३

Slōka 43

बाहुभ्याम् पीडितः तेन महाशैलो महात्मना ।
ररास सिंह अभिहतो महान् मत्त इव द्विपः ॥४-६७-४३॥

Slōka 44 / श्लोक ४४

Slōka 44

मुमोच सलिल उत्पीडान् विप्रकीर्ण शिलोउच्चयः ।
वित्रस्त मृग मातंगः प्रकंपित महा द्रुमः ॥४-६७-४४॥

Slōka 45 / श्लोक ४५

Slōka 45

नानागंधर्वमिथुनैर्पानसंसर्गकर्कशैः ।
उत्पतद्भिर्विहंगैश्चविद्याधरगणैरपि - यद्वा -नाना गन्धर्व मिथुनैः पान संसर्ग कर्कशैः ।उत् पतद्भिः विहंगैः च विद्याधर गणैः अपि ॥४-६७-४५॥

Slōka 46 / श्लोक ४६

Slōka 46

त्यज्यमान महा सानुः संनिलीन महा उरगः ।
शैल शृन्ग शिला उत्पातः तदा अभूत् स महा गिरिः ॥४-६७-४६॥

Slōka 47 / श्लोक ४७

Slōka 47

निःश्वसद्भिस्तदातैतुभुजगैरर्धनिःसृतैः ।
सपताकैवाभातिसतदाधरणीधरः।यद्वा -निःश्वसद्भिः तदा तैः तु भुजगैः अर्ध निःसृतैः ।स पताक इव आभाति स तदा धरणी धरः ॥४-६७-४७॥

Slōka 48 / श्लोक ४८

Slōka 48

ऋषिभित्राससंभ्रान्तैस्त्यज्यमानश्शिलोच्चयः - यद्वा -ऋषिभिः त्रास संभ्रांतैः त्यज्यमानः शिला उच्चयः ।
सीदन् महति कांतारे सार्थ हीन इव अध्व गः ॥४-६७-४८॥

Slōka 49 / श्लोक ४९

Slōka 49

स वेगवान् वेग समाहित आत्माहरि प्रवीरः पर वीर हन्ता ।
मनः समाधाय महाअनुभावोजगाम लंकाम् मनसा मनस्वी ॥४-६७-४९॥